SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ है क्रियामाह-'नोपाणिणं 'ति-प्राणा विद्यन्ते येषां ते प्राणिनः, तेषां प्राणान् - इन्द्रियवलोश्वासायुरूपान् नो समारभेया:वाचाराङ्ग- न व्यपरोपयेस्तदुपघातकार्यनुष्ठानं मा कृथाः । इति परिसमाप्तौ ब्रवीमि पूर्ववत् । इति शीतोष्णीयाध्ययने द्वितीयोदेशकः॥ मुनित्वंकापत्रदीपिका अथ तृतीय आरम्यते, तस्य सूत्रम् रणस्वरूपब०३ MI "संधि लोयस्स जाणिवा आयओ बहिया पास, तम्हा न इंता न विघायए, जमिणं अन्नमन्नवितिगिच्छाए पडिलेहाए न करे। प्रकटनम्। ॥९६॥ पावं कम्मं, किं तत्थ मुणी कारणं सिया ?" 'संधि 'मित्यादि-सन्धिविधा द्रव्यभावमेदाम्यां, द्रव्यसन्धिः- कुड्यादिविवरं, भावतः कर्मविवरं तं ज्ञात्वा, इत्ययं सम्यग्ज्ञानावाप्तिलक्षणः सन्धिः, अथवा चारित्रमोहनीयक्षयोपशमात्मका, तं सन्धि ज्ञात्वा न प्रमादः श्रेयान् , यथाहि लोकस्य चारकाद्यवरुद्धस्य कुड्यनिगडादीनां सन्धि-छिद्रं ज्ञात्वा न प्रमादः श्रेयान् , एवं मुमुक्षोरपि कर्मविवरमासाद्य क्षणमपि पुत्रकलत्रसंसारसुखव्यामोहो न श्रेयसे भवतीति । यदि वा सन्धिरवसरो धर्मानुष्ठानस्य, तं ज्ञात्वा लोकस्य-भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् , सर्वत्रात्मौपम्यमाचरेदित्याह-'आयओ' इत्यादि-यथात्मनः सुखमिष्टं तथा बहिरपि- आत्मनो व्यतिरिक्तानां जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च पश्य- अवधारय । तदेवमात्मनः समतां सर्वप्राणिनामवधार्य किं ? कर्त्तव्यमित्याह-'तम्हा न हंता' इत्यादि-यस्मात्सर्वेऽपि जन्तवो दुःखद्विषः सुखेप्सवस्तसान्न हंता न व्यापादक: स्यात् । नाप्यपरैस्तान् विविधैः पापोपदेशकथनैर्घातयेत् - विघातयेदिति। न चैकान्तेन पापकर्माऽकरणमात्रतया श्रमणो भवतीति दर्शयति 'जमिण 'मिच्चाइ- यदिदं- यदेतत् पापकर्माकरणताकारणं किं तद् दर्शयति- IDI||९६॥ SWACHANASESS MahaESSNESCRes
SR No.600366
Book TitleAcharang Sutra Dipika Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorAjitdevsuri
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages244
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy