________________
५. गोपालए अदुवा सोवणिए अदुवा सोवणियंतए।।२५॥
स एक: कदाचित् निस्तूंश: आत्मनिमित्तं ज्ञातिहेतुं वा, अगारहेतुं गृहसंस्करणार्थं परिवारहेतुं वा, ज्ञातक: परिचितः तं समुद्दिश्य सहवासिकं प्रातिवेश्मिकं निश्रीकृत्य एतानि कुर्यात्, तानि एव आह, अदुवेत्ति अथवा इति पक्षान्तरापेक्षया, गच्छन्तमनुगच्छति इति अनुगामुकः स च अकार्यकरणमना: तं गच्छन्तं अनुगच्छति, अथवा अन्यस्य विरूपकरणावसरापेक्षी उपचारक: सेवक: स्यात्, अथवा तस्य प्रतिपथिकः प्रतिपथं सम्मुखं आगच्छति, अथवा संधिछेदक: चौर: स्यात्, अथवा ग्रन्थिभेदक: स्यात्, अथवा उरभ्रेण चरति इति औरभ्रिकः, अथवा सौकरिकः, अथवा शकुनिभिः चरतीति शाकुनिकः, अथवा वागुरिकः, अथवा मात्स्यिक, अथवा गोघातक: अथवा गोपालत्वं श्रयति, अथवा श्वभिः चरति शौवनिकः शूनां पालक इत्यर्थः, अथवा सोवणियंतए त्ति- श्वभिः पापर्द्धिं कुर्वन् मृगादीनाम् अन्तं करोतीत्यर्थः, एवमेतेषां चतुर्दशकर्त्तव्याणां उद्देशं कृत्वा तानि प्रत्येकं विवृणोति ॥२५॥
से एगइओ अणुगामियभावं पडिसंधाय तमेव अणुगामिय अणुगामिय हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेइ, इति से महया पावेहिं कम्मेहिं अप्पाणं उवक्खाइत्ता भवइ ॥२६॥