SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम् विद्या सा च किल कतिभि: जापैः दण्डम् उत्थापयति, अर्द्धवैतालीयं दण्डमुपशमयति, अवस्वापिनी, तालोद्घाटनी, श्वापाकी, शाबरी, द्राविडी, कालिङ्गी, गौरी, गांधारी, अवपतनी, उत्पतनी, जम्भनी, स्तम्भनी, श्लेषणी, आमयकरणी, विशल्यकरणी, श्री सूत्रकृताङ्गदीपिका प्रक्रामणी अन्तर्धानकरणी इत्यादिका: विद्या अधीयते, आदिशब्दात् प्रज्ञप्त्यादयो ग्राह्याः, एताश्च विद्या: पाषण्डिका: गृहस्था वा स्वयूथ्या द्रव्यलिङ्गधारिणो वा अन्न-पान-वस्त्र-लयन-शयनार्थं प्रयुञ्जन्ति अन्येषां वा विरूपरूपाणां विचित्राणां कामभोगानां कृते प्रयुञ्जन्ति, सामान्येन विद्यासेवनम् अनिष्टं इत्याह- तेरिच्छमिति- तिरश्चीनाम् अननुकूला सदनुष्ठानप्रतिघातकारिणी ते अनार्या विप्रतिपन्ना विद्यां सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्या: तथाऽपि अनार्यकर्मकारित्वाद् अनार्या एव ज्ञेयाः,ते च कालमासे मरणावसरे कालं कृत्वा यदि कथंचिद् देवलोकगामिनो भवन्ति ततो अन्यतरेषु आसुरीयकेषु किल्बिषादिस्थानेषु उत्पत्स्यन्ते, ततोऽपि विप्रमुक्ता: च्युता यदि मनुष्येषु उत्पद्यन्ते तदा एडमूकत्वेन अव्यक्तभाषित्वेन तमस्त्वेन अन्धतया मूकतया वा प्रत्यायान्ति, ततो नरकतिर्यगादिषु उत्पद्यन्ते ॥२४॥ अथ गृहस्थानुद्दिश्य अधर्मसेवाम् आह से एगइओ आयहे वाणाइहेउं वा अगारहेडं वा परिवारहेडं वा नायगं वा सहवासियं वा निस्साए अदुवा अणुगामिए अदुवा उवचरए अदुवा पाडिपथिए अदुवा संधिछेदए अदुवा गठिभेदए अदुवा १. उरब्भिए अदुवा सोवरिए अदुवा साउणिए अदुवा वागुरिए अदुवा मच्छिए अदुवा गोघातए अदुवा १D आसुरकेषु
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy