SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वि.श्रु.स्कन्धे श्री सूत्रकृताङ्गदीपिका द्वितीयमध्ययनम् सहितब्रह्मचारिणश्च उपयुक्तं गच्छत: तिष्ठतो निषीदत: त्वग्वर्तनां कुर्वाणस्य, तथा उपयुक्तमेव वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनं वा गृण्हतो निक्षिपतो वा यावत् चक्षुःपक्ष्मनिपातमपि उपयुक्तं कुर्वतः सतोऽपि अस्ति विद्यते विमात्रा विविधा मात्रा सूक्ष्मा क्रिया ईर्यापथिका नाम केवलिनाऽपि क्रियते, यत: सयोगी जीव: क्षणमप्येकं निश्चल: स्थातुं न शक्नोति, वह्निताप्यमानजलवत् कार्मणशरीरानुगत: सदा परिवर्तमान एव आस्ते, तत: केवलिनोऽपि सूक्ष्मगात्रसंचाराः स्यु: तैश्च कर्म बध्यते तदीर्यापथिकं, तस्य या अवस्था सा क्रिया, सा पढमेत्ति- निष्कषायिणो यत्कर्म बध्यते तत् प्रथमसमये बद्धं स्पृष्टं चेति तत् क्रिया एव बद्धस्पृष्टा इत्युक्ता, द्वितीयसमये वेदिता अनुभूता, तृतीयसमये निर्जीर्णा, केवलयोगनिमित्तं यत्कर्म बध्यते तस्य न सांपरायिकस्य इव स्थिति:, किन्तु प्रकृतित: सातावेदनीयं तत् १, स्थितितो द्विसमयस्थितिकम् २ अनुभावतः शुभानुभावं अनुत्तरसुखातिशायी ३ प्रदेशतो बहुप्रदेशं अस्थिरबन्धं बहुव्ययं च ४, तदेवं सा क्रिया प्रथमसापये बद्धस्पृष्टा, द्वितीयसमथे उदिता वेदिता निर्जीर्णा स्यात्, सेयकाले त्ति- एष्यत्काले आगामिनि तृतीयसमये तत्कमपिक्षया अकर्मताऽपि भवति, एवं खलु तस्य वीतरागस्य तत्प्रत्ययिकं ईर्याप्रत्ययिक कर्म आधीयते बध्यते, एतत् त्रयोदशं क्रियास्थानम् आख्यातं, ये पुनः तस्मादन्ये प्राणिनः तेषां मिथ्यात्वा-विरति-प्रमाद-कषाय-योगनिमित्तः साम्परायिको बन्ध: स्यात्, केवलयोगनिमित्तस्तु वीतरागस्यैव, स च द्विसमयस्थितिक इति ॥२२॥ १P नां शयनं कु०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy