SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्र.स्कन्धे द्वितीयमध्ययनम् एलमूकत्वेन उत्पद्यन्ते, यथा एडको अव्यक्तवाग् तथा अयमपि,तम्मूयत्ताए त्ति- तमस्त्वेन जात्यन्धतया अत्यंताज्ञानावृततया वा जातिमूकत्वेन अपगतवाच इह प्रत्यायान्ति, तदेवं तेषां तीर्थकानां तत्प्रत्ययिकं सावद्यानुष्ठाननिमित्तं सावद्यं कर्म आधीयते, तदेतत् लोभप्रत्ययिकं द्वादशं क्रियास्थानम् आख्यातमिति ॥२०॥ उपसंहारमाहइच्चेइयाई दुवालसकिरियाठाणाइं दविएणं समणेणं वा माहणेणं सम्मं सुपरिजाणियव्वाइं भवंति ॥२१॥ इत्येतानि अनर्थदण्डादीनि द्वादशक्रियास्थानानि कर्मग्रन्थिद्रावणाद् द्रव: संयमः स विद्यते यस्याऽसौ द्रविकः तेन, श्रमणेन साधुना, मा वधीदिति प्रवृत्तिः यस्य स माहन: तेन, सम्यक् सुपरिज्ञातव्यानि संसारकारणानि इति ज्ञात्वा परिहर्तव्यानि भवन्ति ॥२१॥ ___ अहावरे तैरसमे किरियाठाणे इरियावहिए त्ति आहिजइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तनिक्खेवणासमियस्स उच्चारपासवण-खेल-जल्ल- सिंघाणपारिट्ठावणियासमियस्स मणसमियस्स वेइसमियस्स १D एडत्वेन २D ग्रन्थे: द्रा० ३ PBD तेरसे ४० वय०
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy