SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ कथयन्ति इत्यर्थः, तद्यथा- अहं ब्राह्मणत्वात् न दण्डादिना हन्तव्यो, अन्ये शूद्रत्वाद् हंतव्याः, तथा च तद्वाक्यं शूद्रं व्यापाद्य प्राणायामं जपेत्', तथा 'शूद्रसत्त्वानां अनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजयेत्' इत्यादि, तथा अहं न आज्ञापयितव्यों, अन्ये तु मत्तो अधमाः समाज्ञापयितव्याः, नाऽहं परितापयितव्यो अन्ये परितापयितव्याः, अहं मूल्येन कर्मकरणाय न ग्राह्यो अन्ये ग्राह्याः, नाऽहं अपद्रावयितव्यो जीविताद् अपरोपयितव्यो अन्ये तु अपद्रावयितव्याः, तदेवं तेषां परपीडोपदेशात् न प्राणातिपातविरतिव्रतं अस्ति, उपलक्षणात् मृषावाद्- अदत्तादानविरतिव्रताऽभावोऽपि ज्ञेयः, तुर्यव्रतं आश्रित्य आह, एवामेव त्ति एवं पूर्वोक्तप्रकारेण स्त्रीषु कामेषु च मूर्च्छिता गृद्धा ग्रथिता अध्युपपन्नाः कियन्तं कालं आसक्ता इत्याह, जाव वासाई त्ति- यावद् वर्षाणि चतुष्पञ्चषड्दशकानि, अयं च मध्यमः कालः, एतावत्कालग्रहणं च साभिप्रायं, प्रायः तीर्थिका अतिक्रांतवयस एव (प्र? ) व्रजन्ति, तेषां च एतावान् एव कालः संभाव्यते, यदि वा मध्यग्रहणात् तत ऊर्ध्वम् अधश्च गृह्यते इत्याह- तस्माच्च उपात्तात् कालाद् अल्पतरः प्रभूततरो वाऽपि कालः स्यात्, तत्र च ते त्यक्त्वाऽपि गृहवासं भुक्त्वाऽपि भोगभोगान्, स्त्रीभोगे सति अवश्यं शब्दादयो भोगा भोगभोगाः तान् भुक्त्वा ते हि वयं प्रव्रजिता इति, न च भोगेभ्यो निवृत्ता अज्ञानित्वात्, ते एवंभूतपरिणामाः कालमासे स्वायुः - क्षये कालं कृत्वा विकृष्टतपसो ऽपि आसुरिकेषु किल्बिषिकेषु स्थानेषु उत्पादयितारो भवन्ति, तस्मादपि स्थानाद् विप्रमुच्यमाना च्युता १० इत्ति २ प्रव्रजन्ति इति टीकायाम् ३ BD पसाऽपि ॥४१॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy