________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे द्वितीयमध्ययनम्
सच्चामोसाइं एवं विउंजंति, अहंण हंतव्वे अण्णे हंतव्वा, अहंण अज्जावेयव्वो अण्णे अज्जावेयव्वा, अहंण परिघेतव्वो अण्णे परिचित्तव्वा अहंण परितावेयव्वो अण्णे परितावेयव्वा, अहंण उद्दवेयव्वो अन्ने उद्दवेयव्वा, एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववण्णा जाव वासाइं चउपंचमाइं छद्दसमाई अप्पयरो वा भुजयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववंतारो भवंति, तओ विप्पमुच्चमाणा एलमूयत्ताए तम्मूयत्ताए (जाइमूयत्ताए) पच्चायंति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जइ, दुवालसमे किरियाठाणे लाभवत्तिए आहिए॥२०॥
अथ अपरं द्वादशं क्रियास्थानं लोभप्रत्ययिकम् आख्यायते, तद्यथा- ये इमे भवन्ति आरण्यका अरण्यवासिनः आवसथिका उटजवासिनः ग्रामान्तिका ग्रामादिकम् उपजीवन्तो ग्रामस्य अन्ते समीपे वसन्तीति, कण्हुई क्वचित् कार्ये मंडलप्रवेशादिके रहस्य येषां ते क्वचिद्राहस्सिकाः, ते च न बहुसंयता: न सर्वसावधनिवृता एकेन्द्रियोपजीविनः त्रसारंभनिवृत्ताश्च प्राय इत्यर्थः, अत एव न बहुप्रतिविरता न सर्वव्रतपालका: किन्तु द्रव्यत: कतिपयव्रता न भावत: सम्यक्त्वाभावात्, एतदेवाह-सव्वपाणेत्ति-ते आरण्यकादय: सर्वप्राणिभूतजीवसत्वेभ्य आत्मना स्वतो अविरता: सत्यामृषाभूतानि वाक्यानि एवं वक्ष्यमाणनीत्या वियुञ्जन्ति विशेषेण प्रयुञ्जन्ति १ BD ०घित्तव्बो २P एवमेव ३D प्राणभूत.