SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ न निवर्त्तते, न आत्मसाक्षिकं निन्दति, न परसाक्षिकं गर्हति, आलोचनार्हसमीपगतो नाऽपि च जुगुप्सते, नो विउट्टइत्ति न वित्रोटयति अपनयति मायाशल्यं न विशोधयति, नाऽपि पुनः तदकरणतया अभ्युत्तिष्ठते, नाऽपि यथार्हतपःकर्मरूपं प्रायश्चित्तं प्रतिपद्यते, तदेवं मायावी अस्मिन् लोके अविश्वास्यतया प्रत्यायाति प्रख्यातिं याति, यदुक्तं मायाशील: पुरुषो, यद्यपि न करोति कञ्चिदपराधं । सर्प इवाविश्वास्यो, भवति तथाऽप्यात्मदोषहतः ॥ इति, तथा मायावी परस्मिन् लोके नरकतिर्यगादिषु प्रत्यायाति भूयो भूयो याति, निंद गहायत्ति - परं निन्दयित्वा आत्मप्रशंसया तुष्यति, एवञ्चासौ लब्धप्रसरो अधिकं निश्चरति तथाविधानुष्ठायी भवति, तत्र च गृद्धः तस्मात् मातृस्थानात् न निवर्त्तते, दण्डं निसृज्य हिंसां कृत्वा प्रच्छादयति अपलपति, अन्यस्य वा मस्तके क्षिपति, स मायावी असमाहृतशुभलेश्यो अनङ्गीकृतशुभध्यानश्चाऽपि भवति, एवं खलु तस्य तत्प्रत्ययिकं सावधं कर्म आधीयते, एतद् एकादशं क्रियास्थानं मायाप्रत्ययिकम् आख्यातमिति ॥१९॥ एतानि एकादश क्रियास्थानानि सामान्येन असंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाषण्डिकानुद्दिश्य कथ्यते अहावरे बारसमे किरियाठाणे लोभवत्तिएत्ति आहिजड़, जे इमे भवंति आरणिया आवसहिया 4 गामनियंतिया कण्हुईराहस्सिया, णो बहुसंजया णो बहुपडिविरया सव्वपाणभूयजीवसत्तेहिं अप्पणा ॥४०॥ १ सर्वस्यावि० इति टीकायां २D मायाशल्यप्रत्ययिकं
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy