________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे
द्वितीयमध्ययनम्
___अथ अपरं एकादशं क्रियास्थानं आख्यायते, तद्यथा- ये केचन अमी भवन्ति पुरुषाः, किंभूता:?- गूढाचारा गलकर्त्तकग्रन्थिछेदकादयः, ते बहूपायैः विश्वासं उत्पाद्य विरूपं कुर्वन्ति, चंडप्रद्योतादे: अभयकुमारादिवत्, तमसि कषितुं शीलं येषां ते तम:कषिणः ते एव तम:काषिका: पराविज्ञाता: क्रिया: कुर्वन्ति इत्यर्थः, ते च उलूकपत्रवत् उलूकपिच्छवत् लघवोऽपि पर्वतवद् गुरुम् आत्मानं मन्यन्ते, आर्या अपि सन्तः ते परव्यामोहार्थम् अनार्या भाषा विउव्वंति प्रयुञ्जन्ते, अन्यथास्थितम् आत्मानम् अन्यथा साध्वाचारेण मन्यन्ते व्यवस्थापयन्ति, अन्यत् पृष्टा मायया अन्यद् वदन्ति, - आम्रान् पृष्टो निम्बान् वदति, व्याकरणं पृष्टः तदज्ञ: तर्कमवतारयति, यथा वा शरति वाजपेयेन यजेत' इत्यस्य वाक्यस्य अर्थं पृष्टः तदर्थानभिज्ञ: कालविलंबार्थं शरत्कालमेव वर्णयति, अन्नमाइक्खियव्वंत्ति' - अन्यस्मिन् अर्थे कथयितव्ये अन्यमेव आख्यान्ति, ‘से जहेति' - तद्यथा नाम कश्चित्पुरुषः संग्रामानिर्गत: अंत: मध्ये शल्यं यस्य स अंत:शल्य:, स वेदनाभीतः स्वयं शल्यं न निर्हरति न कृषति, नाऽपि अन्येन कर्षयति, नाऽपि वैद्योपदेशाद् ओषधप्रयोगैः प्रतिध्वंसयति विनाशयति, अन्येन पृष्टः तच्छल्यं निगुते अपलपति, तेन शल्येन ‘अविउट्टमाणेत्ति' पीड्यमान: अंतोअत्ति मध्ये पीड्यमानोऽपि रीयते व्रजति, वेदनां सहमानोऽपि क्रियासु प्रवर्त्तते इत्यर्थः, द्रष्टान्तं योजयति, एवमेव माईत्ति यथा सशल्यो दुःखभाग् भवति एवमेव मायी कृतं कार्यं निगूहयन् मायां कृत्वा अन्यस्मै न आलोचयति न कथयति, न तस्मात् स्थानात् प्रतिक्रामति
१D तम:कार्षिकाः