SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे द्वितीयमध्ययन ___ अथ अपरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकम् आख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो माता-पितृ-सुहृद्-स्वजनादिभिः सार्धं संवसन् तेषां मातापित्रादीनां अन्यतभेन अनाभोगतो यथाकथञ्चित् लघुतमेऽपि अपराधे स्वयमेव आत्मना क्रोधतो गुरुतरं दण्डं वर्त्तयति करोति, तद्यथा- शीतोदकविकटे शिशिरादौ अतिशीतोदके कार्य शरीरं अपराधिनो अवबोलयिता भवति, तथा उष्णोदकविकटेन कायम् अपसिञ्चयिता भवति, विकटग्रहणाद् उष्णतैलकांजिकादिना, अग्निकायेन उल्मुकेन तप्तलोहेन वा कार्य उपदाहयिता भवति, 'जोएण त्ति'- जोत्रेण वेत्रेण वा, नेत्रो वृक्षविशेष: तेन, कशादिना वा, लतया वा शरीरपार्वाणि उद्दालयिता चर्माणि लुंपयिता भवति, दंडेन, अस्था, मुष्टिना, लेष्टुना, कपालेन भांडखंडेन, कायं उपताडयिता भवति, तथाविधे पुरुषे स्वल्पापराधेऽपि महादंडकारिणि एकत्र वासं कुर्वति मातापित्रादयो दुर्मनसः स्युः तस्मिन् प्रवसति दूरं गच्छति सति सहवासिनः सुमनस: सुखिन: स्युः, तथाप्रकारः तादृश- पुरुषो दंडस्य पार्था दंडपाच तद्विद्यते यस्य असौ दंडपार्थी दंडप्रवृत्तः, दंड: पुरुस्कृतो येन स दंडपुरुस्कृतो, अस्मिन् लोके स्वस्य परेषां च अहितः, परलोकेऽपि अहितः, संज्वलन: क्रोधकारी, क्रोधनो वधबंधादिषु अविमृश्य प्रवृत्तिकृत्, पृष्टिमांसखादक: परमर्मोद्घट्टनतः, एवं तस्य स्वल्पापराधेऽपि महादण्डकर्तुः तदंडप्रत्ययिकं सावद्यं कर्म आधीयते बध्यते, तदेतद्दशमं क्रियास्थानं आख्यातमिति अन्ये पुनः अष्टमं क्रियास्थानं आत्मदोषप्रत्ययिकं आचक्षन्ते, नवमं तु १p परमार्थोट्य
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy