________________
श्री सूत्रकृताङ्गदीपिका
नवमे किरियाठाणे माणवत्तिए त्ति आहिए ॥ १७ ॥
अथ अपरं नवमं क्रियास्थानं मानप्रत्ययिकम् आख्यायते, तद्यथा कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जाति-कुल-बल-रूप-तप :- श्रुत-लाभै-श्वर्य - प्रज्ञामदाख्यैः अष्टभिः मदस्थानैः अन्यतरेण वा मत्तः परं हीनबुद्ध्या हीलयति, निन्दति, जुगुप्सते, गर्हति, परिभवति, यथा अयं इतरो जघन्यो हीनो मत्तः कुलादिभिः, अहं पुनः विशिष्टकुलादिगुणोपेतः, एवमात्मानं उत्कर्षयेत्, एवं जात्यादिमदमत्तः सन् इहैव निन्द्यः स्यात्, अत्र च जात्यादिमदद्वयादिसंयोगैः भङ्गा ज्ञेया:, तथाहि, जातिमदः कस्यचिन्न कुलमदः, कस्यचित् कुलमद एव न जातिमदः, कस्यचिद् द्वयं कस्यचिदुभयमपि न, एवं पदद्वयेन चत्वारि भन्नाः, पदत्रयेण अष्टौ, पदचतुष्टयेन षोडश, पञ्चभिः पदै: द्वात्रिंशत्, षड्भिः चतुःषष्टिः, सप्तभि: १२८ (अष्टाविंशत्युत्तरं शतं), अष्टभि: २५६ ( षट् पञ्चाशदधिकं शतद्वयं), सर्वत्र मदाभावरूपः चरमभङ्गः शुद्ध इति, स मानी देहात् च्युतो मृतः सन् कर्मद्वितीयः कर्मसहायो अवश: परवशः प्रयाति भवान्तरं, तद्यथा गर्भाद्गर्भं, जन्मन एकस्मादपरं जन्म, मारात् मरणात् मारं मरणान्तरं व्रजति, नरकतुल्यात् चण्डालादिवासात् नरकं रत्नप्रभादिकं याति अथवा नरकादुद्धृत्य सिंहमत्स्यादौ उत्पद्य पुनः अतितीव्रं नरकान्तरं याति तदेवं मानी परपरिभवे सति चंडो रौद्रो अन्यं हन्ति, तदभावे आत्मानमेव हन्ति, स्तब्धः चपलो यत्किञ्चनकारी स्यात् मानी सन् एवं खलु तस्य तत्प्रत्ययिकं १ योगशास्त्रे 'जातिलार्भे'त्यत्र प्रज्ञामदः, प्रशमरतौ च 'जातिकुलें' त्यादौ ऐश्वर्यमदश्च न पृथगुपात्तौ इति प्रसिद्ध्यनुरोधेनान्यतरविवक्षणादष्टभिरिति । २ अस्मदः पञ्चम्यन्तस्य
रूपम
द्वि. श्रु. स्कन्धे द्वितीयमध्ययनम्