________________
अथ अपरं अष्टमं क्रियास्थानं अध्यात्मिकं अंत:करणोद्भवं आख्यायते, यथा कश्चिन्नर: तस्य नास्ति कश्चिद् विसंवादयिता पराभवकर: तथाऽपि असौ स्वयं एव हीनो, दीनो, दुष्टो, दुर्मना अपहतमन:संकल्पः, चिंताप्रधानः शोकः चिन्ताशोकः स एव सागर: तत्र प्रविष्टः, करतले पर्यस्तं स्थितं मुखं यस्य स तथा आर्तध्यानोपगतो, भूमिगतदृष्टि: ध्यायति, तस्यैवं आध्यात्मिकानि चित्तोद्भवानि असंशयितानि नि:संशयानि चत्वारि स्थानानि स्युः, तानि चैवं आख्यायन्ते, तद्यथा- क्रोधमानमायालोभस्थानानि, ते च क्रोध-मान-माया-लोभा आध्यात्मिका आत्मोद्भवाः एभिः एव मनो दुष्टं स्यात्, एवं तस्यं तत्प्रत्ययिकं अध्यात्मनिमित्तं सावा कर्म आधीयते, तदेवं अष्टमम् अध्यात्मिकाख्यं क्रियास्थानं आख्यातम् ॥१६॥
अहावरे नवमे किरियाठाणे माणवत्तिए त्ति आहिज्जइ, से जहानामए केइ पुरिसे जाइमएण वा रूवमएण वा कुलमएण वा बलमएण वा तवमएण वा सुयमएण वा लाभमएण वा ईसरियमएण वा पण्णामएण वा अण्णतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेइ, खिंसइ, गरिहइ, परिभवइ, अवमन्नइ, इत्तरिए अयं अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं उक्कसे, देहा चुए कम्मबिईए अवसे पयाइ, तं (जहा)-गब्भाओ गब्भं, जम्माओ जम्मं, माराओ मारं, णरगाओ णरगं, चंडे थद्धे चवले माणी यावि भवइ, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जइ,