SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ एवं तेन भ्रान्तेन अचौर एव हतपूर्वः स्यात्. ग्रामादिलक्षणं चेदं, ग्रामो वृत्यावृतः स्वान्नगरमुरुचतुर्गोपुरोद्भासिशोभं, खेदं नद्यद्रिवेष्टं परिवृतमभितः कर्बटं पर्वतेन ग्रामैर्युक्तं मंडबं दलितदशशतैः पत्तनं रत्नयोनि-द्रणाख्यं सिंधुवेलावलयितमथ संबाधनं चाद्रिशृङ्गे ॥ इति आश्रम: तापसस्थानं, सन्निवेशः सार्थकटकादिवासः, निगमो बहुवणिग्वासः, राजधानी राजकुलस्थानं, सोऽयं दृष्टिविपर्यासदंड:, तदेवं खलु तस्य दृष्टिविपर्यासप्रत्ययिकं सावद्यं कर्म आधीयते, इदं पञ्चमं दंडसमादानं दृष्टिविपर्यासप्रत्ययिकं आख्यातमिति ॥ १३ ॥ अहावरे छट्ठे किरियाठाणे मोसवत्तिए त्ति आहिज्जइ, से जहानामए केइ पुरिसे आहे वा नाइहेउं वा परिवारहेडं वा सयमेव मुसं वयइ, अन्त्रेण वि मुलं वयावेइ, मुसं वयंतं पि अण्णं समणुजाण, एवं खलु तस्स तप्पत्तिों सावज्जे त्ति आहिज्जइँ, छट्ठे किरियठाणे मोसवत्तिए त्ति आहि ॥ १४ ॥ अथ अपरं षष्ठं क्रियास्थानं * मृषावादप्रत्ययिकं आख्यायते तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं ज्ञातिपरिवारनिमित्तं वा स्वयमेव मृषावादं वदति, नाऽयं मदीय इत्यादि, तथा अचौरं चौरं वदति, तथा अन्येन * मृषावादं वादयति, अन्यं मृषावाद वदन्तं समनुजानीते, एवं खलु तस्य तत्प्रत्ययिकम् सावद्यं कर्म आधीयते बध्यते, एतत् षष्ठं क्रियास्थानं मृषावादप्रत्ययिकं आख्यातं, १ PB मटंबं ** एतदन्तर्गतः पाठः D प्रतौ नोपलभ्यते ॥३६॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy