________________
एते मृगा इति कृत्वा अन्यतरस्य मृगस्य वधार्थम् इषुं शरं आयामेत्ता आयामेन समाकृष्य निसृजति, स च मृगं हनिष्यामीति कृत्वा इषु क्षिप्तवान्, स च तेन इषुणा तित्तिरं वर्त्तकं वा, लावकं वा, कपोतकं वा, कपिं वा, कपिंजलं वा पक्षिविशेषं व्यापादयिता भवति, इह खलु असौ अन्यस्य अर्थाय निक्षिप्तो दंडो यदा अन्यं स्पृशति घातयति सो अकस्माद्दण्ड इत्युच्यते ॥ १०॥
अथ वनस्पतिमुद्दिश्य इममेव दण्डमाह
से जहा वा केइ पुरिसे सालीणि वा वीहीणि वा कोद्द्वाणि वा कंगूणि वा रालाणि वा लिमाणे अन्नरस तणस्स वहाए सत्थं णिसिरिज्जा, से सामगं तणगे मुकुंदगं कलेसुअं छिंदिस्सा कट्टु सालिं वा वीहिं वा कोद्दवं वा कंगूं वा वरागं वा रालय वा छिंदत्ता भव इति खलु से अन्नस्स अट्ठाए अन्नं फुसई, अकस्माद्दंडे, एवं खलु तस्स तप्पत्तिअं सावजेति आहिज्जइ चउत्थे दंडसमादाणे अकस्माद्दंडवत्तिए त्ति आहिए ॥। ११ ॥
तद्यथा नाम कश्चित्पुरुषः कृषीवलादिः शालिव्रीहि-कोद्रव- कंगु-रालादिधान्यस्य श्यामतृणक- मुकुंदक कलेसुकतृणानि तृणविशेषाः, तानि णिलिज्जमाणे अपनयन् धान्यशुद्धिं कुर्वाणो अन्यतरस्य तृणस्य छेदाय शस्त्रं दात्रादिकं निसृजेत्, स च श्यामादिकं तृणं छेत्स्यामीति कृत्वा अकस्मात् शालिं वा यावद् रालादिकं वा छिन्द्यात्, रक्षणीयस्यैव अकस्मादसौ छेत्ता स्यादिति अन्यस्य कृते अन्यं स्पृशति छिनत्ति, एवं खलु तस्य तत्प्रत्ययिकं अकस्माद्दण्डनिमित्तं सावद्यं पापं आधीयते सम्बध्यते, एतच्चतुर्थं दण्डसमादानम्
॥३५॥