________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे
द्वितीयमध्ययनम्
A णिसिरड. अण्णेण वि णिसिरावेड़, अण्णं पि णिसिरंतं समणुजाणइ, हिंसादंडे, एवं खलु तस्स तप्पत्तिअंसावजे त्ति आहिज्जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिए ति आहिए ॥९॥
अथ अपरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकं आख्यायते, तद्यथा नाम कश्चित्पुरुषः माम् अयं घातयिष्यतीति मत्वा सादिकं हन्ति, यथा कंसो देवकीसुतान्, परशुरामो वा यथा कार्तवीर्यं जधान, मदीयं पितरं अन्यं वा अन्यदीयस्य वा कस्यचित् सुवर्णपशुप्रभृते: अयं उपद्रवकारी इति मत्वा तत्र दण्डं निसृजति, तदेवं माम् मदीयम् अन्यम् अन्यदीयं वा हिंसितवान् हिनस्ति हिंसिष्यति इत्येवं संभाविते त्रसे स्थावरे वा तं दण्डं स्वयं निसृजति, अन्येन निसर्जयति, निसृजन्तं समनुजानीते, एतत् तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिक आख्यातम् ॥९॥
अहावरे चउत्थे दंडसमादाणे अकस्माद् दंडवत्तिए त्ति आहिजइ, से जहानामए केइ पुरिसे कच्छंसि वा जाव वणदग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मिय त्ति काउं अण्णयरस्स मियस्स वहाए उसुगं आयामित्ता णं णिसिरेजा, से मियं वहिस्सामि त्ति कट्ट तित्तरं वा वट्टगं वा लावगं वा कवोतगं वा कविं वा कविंजलं वा विद्धित्ता भवइ. इह खलु से अन्नस्स अट्ठाए अन्नं फुसइ, अकस्माइंडे।।१०॥
अथ अपरं चतुर्थं दण्डसमादानं अकस्माद्दण्डप्रत्ययिकं आख्यायते, अकस्माद् इत्ययं शब्दो मगधदेशे लोकै: संस्कृत एव उच्चार्यते, तत इहापि तथैवोक्तः, तद्यथा नाम कश्चित्पुरुषो लुब्धकादि: कच्छादिषु गत्वा मृगैः वृत्ति: जीविका यस्य स मृगवृत्तिकः, मृगेषु संकल्पो यस्य स तथा, मृगेषु प्रणिधानं चित्तवृत्तिः यस्य स तथा, मृगवधार्थं कच्छादिषु गन्ता भवति, तत्र च गतः स