SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तेसिं पि य णं इमाइं तेरस किरियाठाणाइंभवंतीतिमक्खायं, तं (जहा)- अट्ठादंडे (१) अणट्ठादंडे (२) हिंसादंडे (३) अकम्हादंडे (४) दिट्ठिविप्परियासियादंडे (५) मोसवत्तिए (६) अदिन्नादाणवत्तिए (७) अज्झत्थिए (८) माणवत्तिए (९) मित्तदोसवत्तिए (१०) मायावत्तिए (११) लोभवत्तिए (१२) इरियावहिए (१३) ॥४॥ तेषां नारकादीनां इमानि वक्ष्यमाणानि त्रयोदश क्रियास्थानानि भवन्ति इति आख्यातं तीर्थकृदादिभिः, तद्यथा- स्वार्थाय दण्डः पापोपादानं अर्थदण्डः (१) निष्प्रयोजनं सावधक्रिया अनर्थदण्डः (२) हिंसा प्राणिघात: तया दण्डो हिंसादण्ड:(३) अकस्मात् अनुपयुक्तस्य दण्डो अकस्माद्दण्डः अन्यस्य क्रियया अन्यस्य घात इत्यर्थः (४) दृष्टेः विपर्यासो रज्जुविषये यथा सर्पबुद्धिः तया दण्डो दृष्टिविपर्यासदण्डो, यथा शरादिक्षेपेण लेष्टुकादिबुद्ध्या चटकादिहननं (५) मृषावादप्रत्ययिकः (६), अदत्तादानप्रत्ययिकः (७) अध्यात्मिको दण्डो यथा निर्निमित्तमेव दुर्मना: चिन्तातुरः तिष्ठति (८), मानप्रत्ययिको दण्डो यथा अष्टमदस्थानोपगतो अपरं हीनं मन्यते (९) मित्राणां उपतापेन दोषो मित्रदोषः तत्प्रत्ययिको दण्डः (१०) माया परवञ्चनबुद्धिः तया दण्डः (११) लोभप्रत्ययिकः (१२) ईर्याप्रत्ययिको दण्डः समितिगुप्तियुतस्य सदा ॥३२॥ ___१BD मोसावत्तिए
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy