SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे PE द्वितीयमध्ययनम् तत्र 'णमिति वाक्यालंकारे' योऽसौ प्रथमानुष्ठेयतया प्रथमस्य अधर्मपक्षस्य विभंगो विचारः, तस्यायमर्थः - इह जगति प्राच्यादिषु दिक्षु मध्ये अन्यतरस्यां दिशि सन्ति विद्यन्ते एके केचन मनुष्याः, तद्यथा- आर्या अनार्या: उच्चैर्गोत्रा: नीचेर्गोत्राः, कायमंत उन्नता:, ह्रस्ववंतो नीचशरीराः, सुवर्णा: सुकान्तयः, दुर्वर्णा निस्तेजस: सुरूपा दूरूपाश्च॥२॥ तेसिंचणंइमं एयारूवंदंडसमादाणंसंपेहाए, तं (जहा)-नेरइएसुवातिरिक्खजोणिएसुमाणुसेसु देवेस जे यावन्ने तहप्पगारा पाणा विऊ वेयणं वेयंति॥३॥ तेषां आर्यादिनां इदं वक्ष्यमाणम् एतद्रूपं दंडसमादानं पापोपादानं 'संपेहाए'त्ति संप्रेक्ष्य, तद्यथा- नारकेषु तिर्यग्योनिषु मनुष्येषु देवेषु ये चान्ये तथाप्रकारा: सुवर्णदुर्वर्णादयः प्राणिनो विद्वांसो वेदनां सातासातरूपां विदन्ति अनुभवन्ति, अत्र चत्वारो भङ्गाः, तथाहि - संज्ञिनो वेदनां अनुभवन्ति जानन्ति च (१) सिद्धास्तु वेदनां जानन्ति नानुभवन्ति (२) असंज्ञिनो अनुभवन्ति न पुनर्जानन्ति (३) अजीवास्तु न जानन्ति नाऽपि अनुभवन्ति (४) इह प्रथमतृतीयाभ्याम् अधिकारः, द्वितीयचतुर्थी अवस्तुभूतौ इति ॥३॥ १ BD उच्चगोत्रा नीचगोत्राः २P संप्रेक्ष्यते
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy