________________
तदपि बिलप्रवेशपन्नगभूतेन आत्मना आहारं आहरेत्, कोऽर्थः?, यथा बिलं प्रविशन् सर्प: तूर्णं प्रविशति, एवं साधुनाऽपि स्वादमगृहणता आहार: शीघ्रं प्रवेशयितव्यः, अथवा सर्पण इव आहारो अलब्ध्वा स्वादं भक्षणीय इति, तद्यथा-अन्नं अन्नकाले सूत्रार्थपौरुषीकरणोत्तरकालं, पानकं पानकाले, न तृषितो भुंजीत, न बुभुक्षितः पानकं पिबेत्, वस्त्रं वस्त्रकाले ग्राह्यं, लयनं गृहादिकं आश्रय: तस्य वर्षाषु अवश्यं उपादानं अन्यदा तु अनियमः, शयनं संस्तारक: शयनकाले, तत्र अगीतार्थानां प्रहरद्वयं निद्राविमोक्षो, गीतार्थानां तु प्रहरमेकमिति ॥५४॥
से भिक्ख मायन्ने अण्णयरं दिसं वा पडिवन्ने धम्ममाइक्खे विभए किट्टे उवट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु वा पवेदए संतिविरतिं उवसमं निव्वाणं सोयवियं अजवियं मद्दवियं लाघवियं अणतिवाइयं सव्वेसिं पाणाणं जाव सत्ताणं अणुविय किट्टिए धम्मं ॥५५॥
आहारादिमात्रज्ञः स भिक्षुः अन्यतरां दिशं अनुदिशिं वा प्रतिपन्नो धर्म आख्यापयेत् कथयेत्, यद् येन साधुना गृहस्थेन विधेयं तद्यथायोगं विभजेत्, धर्मफलानि कीर्तयेत्, उपस्थितेषु उद्यतेषु, अनुपस्थितेषु कौतुकादिप्रवृत्तेषु, शुश्रूषमाणेषु श्रोतुं
||२९||
१BD विभाए २D oमाणे वा ३ लापविश्यं ४BD'अमुदिनी' ति शस्ति