________________
श्री सूत्रकृताङ्गदीपिका
प्रवृत्तेषु प्रवेदयेत्, यत् कथयेत् तदाह शांतिः क्षमा तत्प्रधाना विरतिः तां कथयेत्, उपशमं इन्द्रियदमनं, निर्वाणं मोक्षं, सोयवियं शौचं भावशौचमित्यर्थः, आर्जवं निर्मायत्वं, मार्दवं मृदुभावो विनीतत्वं इति भावः, लाघवं कर्मलघुत्वक्रियाः, अतिपातो हिंसा, स विद्यते यस्य सो अतिपातिकः, तन्निषेधाद् अनतिपातिकः तं सर्वेषां प्राणिनां यावत् सत्त्वानां धर्मं अनुविविच्य विचिंत्य कीर्तयेत्, कोऽर्थः ? सर्वप्राणिरक्षाभूतं धर्मं कथयेदित्यर्थः ॥ ५५ ॥
सेभिक्खू धम्मं किंट्टमाणे णो असणस्स हे धम्ममाइंक्खेज्जा, णो पाणस्स हेउ धम्माईक्जा, णो वत्थस्स हेउं धम्ममाइंक्खेजा, णो लेणस्स नो सयणस्स हेउ, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हे धम्ममाईक्खेज्जा, अगिलाए धम्ममाईक्खेज्जा, णण्णत्थ कम्मनिज्जरट्ट्याए धम्ममाईक्खेजा ॥ ५६ ॥
स भिक्षुः धर्मं कीर्तयेत्, न अन्नस्य हेतोः धर्मं आचक्षीत, तथा पान-वस्त्र-लयन-शयन निमित्तं न धर्ममाख्याति, विरूपरूपानां
१ BID किट्टेमाणे * * एतदन्तर्गतः पाठः B प्रतौ नोपलभ्यते + BD मातिक्खेज्जा
द्वि. श्रु. स्कन्ध प्रथमाध्ययनम्