SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे प्रथमाध्ययनम् वेषितं केवलसाधुवेषप्राप्तं न पुन: निमित्तादिना उत्पादित, सामुदानिकं मधुकरवृत्या स्तोकं स्तोकं गृहीतं, प्रज्ञस्येदं प्राज्ञं गीतार्थोपात्तं अशनं, तदपि वेदनावैयावृत्यादिकारणे सति, यदुक्तं 'वेयण(१)वेयावच्चे(२) इरियट्ठाए(३) य संजमछाए (४) । तह पाणवत्तियाए(५) छठें पुण धम्मचिंताए(६) ॥ एषु कारणेषु आहारं गृह्णीयात्, तदपि प्रमाणयुक्तं नातिमात्रं, यदुक्तं अद्धमसणस्स सव्वंजणस्स, कुज्जा दवस्स दो भाए । वायपवियारणट्ठा, छब्भागं ऊणगं कुज्जा ॥इति, अक्षस्य शकटस्य उपांजनं अभ्यङ्ग:- व्रणस्य च लेपनं, तदुपमया आहारं आहरेत्, यत: अब्भंगेण व सगडं ण तरइ, विगई विणा उ जो साहू । सो रागदोसरहिओ, मत्ताइ विहीइ तं सेवे ।। एतदेवाह- संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्या आहारमात्रया संयमयात्रा प्रवर्त्तते तया संयमयात्रामात्रया वृत्तिः यस्य तत्तथा, +छाया: वेदन वैयावृत्यर्याय च संयमार्थाय । तथा प्राणवृत्या षष्ठं पुनर्धर्मचिन्तायै ।। *छाया :अर्द्धमशनस्य सव्यंजनस्य कुर्याद्दवस्य द्वौ भागौ। वातप्रविचारणार्थ षष्ठं भागं ऊनं कुर्यात् ॥ छायाः अभ्यङगेनेव शकटं न शक्नोति विकृति विनैव यः साधुः । स रागद्वेषरहितो मात्रया विधिना ता सेवेत ॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy