SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ काले, वत्थं वत्थकाले, लेणं लेणकाले सयणं सयणकाले ॥ ५४ ॥ स भिक्षुः अथ पुनरेवं जानीयात्, तद्यथा- विद्यते तेषां गृहस्थानां वक्ष्यमाणः पराक्रमः सामर्थ्यं आहारकरणारम्भ इति यावत्, यस्य चं अर्थाय यत्कृते तच्चेतितं दत्तं निष्पादितं स्यात्, तद्यथा- आत्मनः कृते से तत् आहारजातं कृतं स्यात्, तथा पुत्र सुतानां, स्नुषाणां वधूनां धात्रीणां राज्ञां, दासीनां, कर्मकरीणां, आदेश: प्राघूर्णकः तस्यार्थं, तथा पृथक् प्रहेणार्थं, सामासाए त्ति - श्यामा रात्रिः तत्र अशनं श्यामाशो रात्रिभोजनार्थं प्रातः अशनं प्रातराश: तदर्थं संनिधिसंनिचयो विशिष्टाहारनिष्पादनं क्रियते, अनेन च एतत् सूच्यते यद् बाल-वृद्ध - ग्लानादिनिमित्तं प्रभातादिसमयेषु अपि भिक्षाटनं क्रियते, तस्य अयमुक्तः संभवः, से संनिधिसंचय इह एकेषां मानवानां भोजनाय स्यात्, तत्र भिक्षुः परकृतपरनिष्ठितं उद्गमोत्पादनैषणाशुद्धं आहारं आहरेत्, अत्र परकृतपरनिष्ठिते चत्वारो भंगा: तद्यथा - तस्य कृतं तस्यैव निष्ठितं १ तस्य कृतं अन्यस्य निष्ठितं २ अन्यस्य कृतं तस्य निष्ठितं ३ अन्यस्य कृतं अन्यस्य निष्ठितं ४, तत्र चतुर्थभंग: सूत्रोपात्तः शुद्धः, द्वितीयोऽपि शुद्ध:, उद्गमदोषाः १६ ( षोडश) उत्पादनादोषा अपि १६ ( षोडश) एषणादोषा १० (दश) इति द्विचत्वारिंशता दोषैः शुद्धं, शस्त्रातीतं प्रासुकीकृतं, शस्त्रपरिणामितं स्वकायपरकायादिशस्त्रेण निर्जीवीकृतं, वर्णगंधरसादिभिश्च परिणामितं, अविहिंसितं सम्यग् निर्जीवमित्यर्थः एषितं भिक्षाचर्याविधि प्राप्तं, १ D वा २ D सुसं० ॥२८॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy