________________
श्री सूत्रकृताङ्गदीपिका
र निष्किञ्चन: सन् साधु: नो दंतप्रक्षालनेन काष्टेन दंतान् प्रक्षालयेत्, नो अंजनं नेत्रयो: विभूषार्थं कुर्यात्, वमनविरेचनादि न कुर्यात्, वस्त्राणां धूपनं न कुर्यात्, कासाद्यपनोदार्थं धूमं न आपिबेत ॥४७॥ मूलोत्तरगुणसंग्रहमाह
से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोभे उवसंते परिनिव्वुडे, णो आसंसं पुंरतो करेजा, इमेण वा दिह्रण वा सुएण वा मुदेण वा विण्णाएण वा इमेण वा सुचरिएण तव-णियम-बंभचेरवासेण, इमेण वा जायामायावुत्तीएणं धम्मेणं ईओ चुए पिच्चा देवा सिआ कामभोगावसवत्ती, सिद्धे वा अदक्खमसुभे ॥४८॥
स भिक्षुः न विद्यते सावधक्रिया राय सो अक्रिय: सांपरायिककर्माऽबन्धक इत्यर्थः, यतः प्राणिनां अलूषको अहिंसकः, तथा अक्रोधो, अमानो, अमायो, अलोभो, उपशान्तः, परिनिर्वृत्त: शीतीभूतः, आशंसां जन्मांतरे कामभोगावाप्तिवाञ्छां न पुरस्कुर्यात्, 'इमेण त्ति-' अमुना तपश्चरणफलेन दृष्टेन आमर्पोषध्यादिना, श्रुतेन पारलौकिकेन आईकधेर्मिलब्रह्मदत्तादीनां तपश्चरणफलेन, 'मुदेण त्ति-' 'मुनिञ्च ज्ञाने', जातिस्मरणादिज्ञानेन, आचार्यादेः सकाशात् विज्ञातेन अवगतेन ममाऽपि विशिष्टं फलं भविष्यति इत्येवं
१PB पुरओ पउंजिज्जा २ JAMD मे ३DI इतो चुते
४ DAM गाण वस० ५D -धम्मिल्ल० ६ PB मनिं च ज्ञाने