SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ । एषां दण्डादिना आकोट्यमानानां यावत् लोमोत्खननमात्रमपि दु:खं प्रतिसंवेदयतां एतच्च हिंसाकरं दुःखं भयं च उत्पन्नं ते सर्वेऽपि प्राणिन: साक्षादनुभवन्ति, अत: सर्वेऽपि प्राणिनो न हन्तव्याः, न आज्ञापयितव्या: बलात् न कार्ये प्रयोक्तव्याः, न परिग्राह्याः, न परितापयितव्याः, न अपद्रावयितव्याः ॥४६॥ से बेमि जे अ अतीता जे य पड़प्पन्ना जे अ आगमिस्सा अरहंता भगवंता, सव्वे ते एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेंति, सव्वे पाणा जाव सत्ता ण हंतव्वा न अजावेयव्वा ण परिघेत्तव्वा, एस धम्मे धुवे कियए सासए समिच्च लोअं खेयन्नेहिं पवेइए, एवं से भिक्खू विरए पाणाइवायाओ जाव विरए परिग्गहाओ, णो दंतपक्खालणेणं दंते पक्खालेजा, णो अंजणं णो वमणं णो धूमं तं पि आविए॥४७॥ सोऽहं साधुः ब्रवीमि, न स्वमत्या किन्तु तीर्थकृदाज्ञया इत्याह- ये अतीता: ये च प्रत्युत्पन्ना वर्तमानाः सीमंधरादयः ये च आगमिष्या अनागता: पद्मनाभादयो अर्हन्तो भगवन्त: सर्वे ते एवं आख्यान्ति, एवं भाषन्ते स्वतः, एवं प्रज्ञापयन्ति हेतुभिः, एवं प्ररूपयन्ति नामादिभिः, यथा सर्वे प्राणा न हन्तव्या इत्यादि, एष धर्मो ध्रुवो नित्यः शाश्वतः, समेत्य ज्ञात्वा लोकं खेदज्ञैः तीर्थकरैः प्रवेदित: कथितः,एवं ज्ञात्वा भिक्षुः विरत: प्राणातिपातात् यावत् परिग्रहात्,महाव्रतपालनार्थं उत्तरगुणा: कथ्यन्ते नो दंतइत्यादिना १ BD वियि० २ BD पित्तव्वा ३D नितियए ॥२५॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy