________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्थे प्रथमाध्ययनम्
भूया सव्वे जीवा सव्वे सत्ता दंडेण वा जाव कवालेण वा आउट्टिजमाणा वा तजिजमाणा वा ताविजमाणा वा परिताविजमाणा वा उद्दविज्जमाणा वा जाव लोमुक्खणणमायमवि हिंसाकर दक्खं भयं पडिसंवेदेति, एवं णच्चा सव्वे पाणा ४ जाव सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेत्तव्वा ण परितावेयव्वा (न उद्दवेयव्वा) ॥४६॥
तत्र कर्मबन्धप्रस्तावे खलु भगवता षड्जीवनिकाया हेतुत्वेन उक्ता, तद्यथा- पृथिवीकायो यावत् त्रसकाय:, एतेषां दुःखं दृष्टांतेन आह, तद्यथा - मे मम असातं दुःखं दंडेन, अस्थमा, मुष्टिना, लेलुना लोष्टेन, कर्प रेण, आकोट्यमानस्य संकोच्यमानस्य, हन्यमानस्य कशादिभिः, तय॑मानस्य अंगुल्यादिभिः, ताड्यमानस्य कुड्यादौ अभिघातादिना, परिताप्यमानस्य अग्न्यादौ, अन्येन वा प्रकारेण परिक्रम्यमाणस्य अपद्राव्यमानस्य मार्यमाणस्य यावत् लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वं अहं संवेदयामि इत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्वा इत्येकार्थिकाः कथंचिद्भेदेन व्याख्येयाः, तथाहि
प्राणा द्वित्रिचतुः प्रोक्ताः भूतानि तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः , शेषाः सत्वा उदीरिताः ॥ इति,
KHEKAKKAKKAKKAKKKAKKANAK
१ PBD आकोद्यमानस्य २ PBD इतीरिता