________________
श्री सूत्रकृताङ्गदीपिका
इह खलु गृहस्था: श्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहा, इति ज्ञात्वा स भिक्षुः एवं चिन्तयेत्, अहमेव खलु अनारम्भो अपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भाः सपरिग्रहाः तदेतन्निश्रया ब्रह्मचर्यं श्रामण्यं वत्स्याम आचरिष्यामो, अनारम्भाः अपरिग्रहाः सन्तो धर्माधारदेहधारणार्थं आहारादिकृते सारम्भसपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिष्याम इत्यर्थः शिष्यः प्राह कस्य हेतोः गृहस्थश्रमणादिनिश्राकरणम्?, आचार्य आह- यथा पूर्वम् आदौ सारम्भसपरिग्रहत्वं तेषां तथा पश्चादपि सर्वकालमपि गृहस्था: सारम्भादिदोषदुष्टाः, श्रमणाश्च पूर्वं गृहस्थत्वे सारम्भास्तथा परस्मिन्नपि प्रव्रज्याकाले तथाविधा एव ते, यथा अपरं अपरस्मिन् प्रव्रज्याकाले तथा पूर्वं गृहस्थत्वेऽपीति, ततः साधुभिः अनारम्भः सारम्भाश्रयणं कार्यं, गृहस्थसारम्भत्वं आह- अंजू इति व्यक्तमिदं यत् गृहस्थाः सावद्याद् अनुपरता अनिवृत्ताः, संयमे वा अनुपस्थिताः अनुद्यताः, येऽपि शाक्यादयः प्रव्रजिताः तेऽपि उद्दिष्टभोजित्वात् सावद्यानुष्टानपरत्वात् पुनरपि तादृशा एव गृहस्थतुल्या एव । उपसंहारमाह जे खलुत्ति ये इमे गृहस्थादयः ते द्विधाऽपि रागद्वेषाभ्यां उभाभ्यां पापानि कुर्वन्ति इति संख्याय ज्ञात्वा द्वयोरपि अंतयो रागद्वेषयोः अदृश्यमानो अनुपलभ्यमानः सन्, इत्येवंभूतो भिक्षुः संयमे येत प्रवर्त्तेत, कोऽर्थः ? ये इमे ज्ञातिसंयोगा, यश्चायं धनादिपरिग्रहः, यद्वा इदं हस्ताद्यवयवयुक्तं शरीरं, यच्चायुर्बलवर्णादिकं तत्सर्वं असारं अनित्यं, गृहस्थश्रमणब्राह्मणाश्च सारम्भपरिग्रहाः, एतत्सर्वं ज्ञात्वा भिक्षुः संयमे रीयेत तिष्ठेत् इति स्थितम् ||४४|| १ BD वसिष्याम
२ D सावधानु०
द्वि. श्रु. स्कन्धे प्रथमाध्ययनम्