________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
तथा कृष्णा: केशा: पलिता: श्वेता: स्युः, यदपीदं शरीरं उदारं शोभनं विशिष्टाहारोपचितं, एतदपि मया अवश्यं प्रहातव्यं त्यक्तव्यं भविष्यतीति अवगम्य संसारासारता संख्याय ज्ञात्वा स भिक्षुः भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयात्, तद्यथा जीवा अजीवाश्च, जीवा द्विविधाः त्रसा: स्थावराश्च, एतेषामुपरि बहुधा व्यापारः प्रवर्तते ॥४१॥ तमेवाह
इहखलुगारत्था सारंभासपरिग्रहा, संतेगइआसमणमाहणासारंभासपरिग्रहा, जेइमेतसथावरा पाणा एए सई समारंभंति, अन्नेण वि समारंभावेंति, अन्नं पि समारभंतं समणुजाणंति ॥४२॥
इह संसारे खलु गृहस्था: सारंभा: सपरिग्रहा: सन्ति विद्यन्ते, एके केचन श्रमणा: शाक्यादयो ब्राह्मणाश्च सारम्भा: सपरिग्रहा, यतो ये इमे त्रसस्थावरा: प्राणिन: एतान् स्वयं समारभन्ते, अन्यांश्च समारम्भयन्ति, समारम्भं कुर्वतश्च अन्यान् समनुजानन्ति ॥४२॥
प्राणातिपातं प्रदर्श्य परिग्रहमाहइह खलु गारत्था सारंभा सपरिग्रहा, संतेगइया समणमाहणा वि सारंभा सपरिग्रहा, जे इमे
१BD वा द्विविधा: २BD ०ई जाव समा. P ०ई जीव समा.