________________
अ अणुपुव्वेणं विप्पजहियव्वं भविस्सइ। एवं संखाए से भिक्खू भिक्खायरिआए समुट्ठिए दुहओ लोगं जाणिज्जा, तं (जहा)- जीवा चेव अजीवा चेव तसा चेव थावरा चेव ॥४१॥
स मेधावी जानीयात्, तद्यथा- बाह्यतरं एतत् यत् ज्ञातिसम्बन्धनं, इदं अन्यद् उपनीततरं आसन्नतरं, ज्ञातिभ्यः शरीरावयवानाम् आसन्नतरत्वात्, तद्यथा- हस्तौ मे मनोहरौ, एवं पादौ, बाहू, उरू, शीर्षं मस्तकं, उदरं, आयुः, बलं, वर्ण:, त्वक्, छाया, श्रोत्रं, चक्षुः, घ्राणं, जिह्वा, स्पर्शः, इति सर्वं ममाति ममीकरोति, यादृग् मे न तादृगन्यस्य इति भावः, एतच्च हस्तपादादिकं वयस: परिणामात् 'परिजूरइत्ति' परिजीर्यते जीर्णतां याति तद्यथा- आयुषः सकाशात् हीयते, बलाद् वर्णाद् त्वच: छायात: श्रोत्रात् यावत् स्पर्शात् हीयते, अत्र च सनत्कुमारचक्रीदृष्टांतो वाच्यः, शरीरे हीयमाने श्रोत्रादींद्रियाणि अपि हीयन्ते, यदुक्तं
बाल्यं वृद्धिर्वयो मेधा, त्वक्चक्षुःशुक्रविक्रमाः । दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥ तथा सुसंधित: सुबद्धः संधि: जानुकूर्परादिको विसंधिः भवति, गात्रं शरीरं वलितरङ्गाकुलं शिराजालवेष्टितं भवति, यत:वलिसंततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरं । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता: कमनीयविग्रहा:?।
॥२२॥
१PBDO चक्रि