________________
श्री सूत्रकृताङ्गदीपिका
विप्पजहाय भिक्खायरिआए समुट्ठिआ, जे ते सतो वा असतो वा णायओ य उवगरणं च विप्पजहाय भिक्खायरिआए समुट्ठिआ ॥ ३४ ॥
तदहं ब्रवीमि, यत् प्राच्यादि दिशमुद्दिश्य एके केचन मनुजाः सन्ति भवन्ति, तद्यथा- आर्या आर्यदेशोत्पन्नाः, तद्विपरीता अनार्याः, उच्चैर्गोत्रोद्भवाः, नीचैर्गोत्रोद्भवाः, कायवंतः उच्चशरीराः, ह्रस्वा वामनादय:, सुवर्णा, दुर्वर्णा, सुरूपाः, दुरूपा:, तेषां च आर्यादीनां क्षेत्राणि शालिक्षेत्रादीनि, वस्तूनि गृहाणि परिगृहीतानि स्वीकृतानि भवन्ति, किंभूतानि तानि ? अल्पतराणि प्रभूततराणि वा, तथा तेषां जनजानपदाः स्वीकृता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा, तेषु आर्यादिषु तथाप्रकारेषु कुलेषु आगम्य जन्म लब्ध्वा अभिभूय विषयादीन् प्रव्रज्यां गृहीत्वा एके केचन सत्त्ववन्तो भिक्षाचर्यायां समुत्थिता उद्यताः, तथा सतो विद्यमानान् ज्ञातीन् स्वजनान् उपकरणं च धनधान्यादिकं विप्रहाय त्यक्त्वा, असतो वा ज्ञातीन् उपकरणं च त्यक्त्वा समुत्थिताः प्रव्रज्योद्यताः ||३४|| भव-इह खलु पुरिसे अन्नमन्नं समुट्ठाए एवं विप्पडिवेएइ, तं (जहा) - खेत्तं मे वत्थं मे हिरणं मे सुवण्णं मे धन्नं मे कंसं मे दूसं मे विउलधणकणगरयणमणिमोत्तिअसंखसिलप्पवालरत्तरयणसंतसारसावतिज्जंति मे, सद्दा मे रुवामे गंधा मे रसा मे फासा मे, ★★ एतदन्तर्गत पाठ: D प्रतौ नास्ति १ B स्वगृहाणि २ D पुब्वमेव ३P समट्ठाए JAM ममट्ठाए
द्वि. श्रु. स्कन्धे
प्रथमाध्ययनम्