________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
आगच्छन्ति, बालकुमारादिकं विविधं पर्यायं नियतित एव अनुभवन्ति, नियतित एव विवेकं शरीरात् पृथग्भावं प्राप्नुवन्ति, विधानं2 अवस्थाविशेषं कुब्ज-काणांधत्वजरामरणादिकं आगच्छन्ति, तदेवं ते प्राणिनो नियत्या एव संगतिं यान्ति नानाविधसुखदुःखभाज:
स्युः, एवं नियतिवादोत्प्रेक्षया एतद् वक्ष्यमाणं न विप्रतिवेदयन्ति न जानन्ति, तद्यथा- क्रिया अक्रिया इत्यादि यावत् विरूपरूपान् कामभोगान् भोजनाय उपभोगार्थं समारभन्ते ॥३२॥
एवामेव ते अंणारिया विप्पडिवन्ना तं सद्दहमाणा जाव ते णो हव्वाए णो पाराए अंतरा कामभोगेसु र विसण्णा, चउत्थे पुरिसजाए णिअतिवादिए त्ति आहिए । इच्चेते चत्तारि पुरिसजाया णाणापन्ना
णाणाछंदाणाणासीलाणाणादिट्ठी णाणारुईणाणारंभा णाणाज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरिअं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसन्ना ॥३३॥ तदेवं ते नियतिवादिनो अनार्या विप्रतिपन्नाः तं नियुक्तिकं नियतिवादं श्रद्दधाना इत्यादि तावन्नेयं यावदंतरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजात: संपूर्णः ॥
(१) BD 'सुख' इति नास्ति (२) D एवमेव (३) D अणायरिया,