________________
REKHAREKASHAKAKKAKES
सर्वेऽपि ईश्वरकर्तृका: न ते ईश्वरात्पृथक् कर्तुं शक्यन्ते, अथवा सर्वव्यापिन आत्मनो ये धर्माः ते पृथक्कर्तुं न शक्यन्ते, यथा गण्डं शरीरविकारभूतं तद्विनाशे च शरीरमेव तिष्ठति, एवं धर्माः पुरुषादिका: पुरुषविकाररूपा न पुरुषात् पृथग् भवन्ति, तद्विकारापगमे च आत्मानमेवाश्रित्य तिष्ठन्ति, एवमन्यदृष्टांता अपि भाव्याः, से जहेत्यादि अरति: चित्तोद्वेगरूपा, सा च शरीरे जातेत्यादि, यथा वा वल्मीकं पृथ्वीविकाररूपं पृथिव्यां जातमित्यादि, एवं सर्वं ईश्वरकारणिकं आत्मविवर्तरूपं वा, यथा वा वृक्षोऽशोकादिः पृथिवीजातः, यथा वा पुष्करिणी तडागरूपा पृथिव्यामेव जातेत्यादि प्राम्वत्, तथा उदकपुष्कलं उदकप्राचुर्य उदकजातमित्यादि, यथा वा उदकबुद्बुद इत्यादि सुगमं ॥२६॥ ईश्वरकृतं सत्यं, अन्यद् मिथ्या इत्याहजंपि य इमं समणाणं निग्गंथाणं उद्दिट्ठं पंणीअं विअंजिअं दुवालसंगं गणिपिडगं, तं (जहा)आयारो सयगडं जाव दिठिवाओ, सव्वमेयं मिच्छा, ण एयं तहिअंण एअं आवत्तहिअं, इमं तु सच्चं, इमं तहिअं, इमं आवत्तहिअं, तें एवं सण्णं कुव्वंति, ते एवं सण्णं संठवयंति, ते । एवं सण्णं सोवट्ठयंति, तमेवं ते तज्जाइअंदुक्खं नातिउटुंति सउणी पंजरं जहा ॥२७॥
॥१५॥
(१) PBDI 'पणीअं' इति नास्ति (२) JAM आहत्तहिअं (३-४) PBD एतेवं (५) BDOवेयंति JAMoति (६) JAM ०ढुवयंति