________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्ये प्रथमाध्ययनम्
विं जाव पुरिसमेव अभिभूय चिट्ठति । से जहानामए उदगबुब्बुए सिआ, उदगजाए जाव उदगमेव अभिभूय चिटुंति, एवामेव धम्मा वि पुंरिसादिआ जाव पुरिसमेव अभिभूय चिट्ठति ॥२६॥ इह खलु धर्माः स्वभावा: चेतनाचेतनरूपाः पुरुष ईश्वर आत्मा वा कारणं आदिः येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एव उत्तरं कार्यं येषां ते पुरुषोत्तराः तथा पुरुषेण प्रणीताः, पुरुषेण द्योतिताः प्रकाशीकृता: यथा सूर्येण घटादयः, ते च धर्मा जीवानां जन्ममरणरोगशोकादयः, अजीवधर्मास्तु मूर्तद्रव्याणां वर्णगंधरसस्पर्शाः, अमूर्त्तद्रव्याणाञ्च धर्माधर्माकाशानां गत्यादिका धर्माः सर्वेऽपि ईश्वरकृताः, आत्माऽद्वैतवादे च आत्मविवर्ताः, सर्वेऽपि एते पुरुषमेव अभिभूय व्याप्य तिष्ठन्ति, अत्रार्थे दृष्टांतान् बहून् आह- से जहानामए इत्यादि- से जहा तद्यथा 'नाम इति संभावनायां,' गण्डं स्यात् संभाव्यते हि प्राणिनां कर्मवशगानां गण्डादिरोग इति, गण्डं च शरीरे जातं, शरीरावयवभूतं तथा शरीरे वृद्धिमुपगतं, शरीरवृद्ध्या तस्य वृद्धिरिति, शरीरे अभिसमन्वागतं - न तदयवयोऽपि शरीरात् पृथग्भूत इति, शरीरमेव अभिभूय पीडयित्वा तिष्ठति, एवमेव ये अमी धर्माः चेतनाचेतनरूपा: ते
(१) BD वि पुरिस जाव० (२) BD पुरिस जाव०