________________
इह मते पंचमहाभूतानि यैः नो अस्माकं क्रिया व्यापारः, अक्रिया निर्व्यापारता वा क्रियते, सुकृतं दुष्कृतं वा, कल्याणं पापकमिति वा, साधु इति असाधु इति वा, सिद्धिः मुक्तिः, असिद्धिः संसार:, नरक: अनरकः तिर्यनरामरगतिः, एतत्सर्वं सत्वरजस्तमोरूपा प्रकृति: एव भूतरूपा करोति, आत्मा केवलं उपभुङ्क्ते न तु करोति किंचित् । नास्तिकाभिप्रायेणाऽपि इहैव सुखदुःखे स्वर्गनरको इति उच्यते, इति एवमंतश: तृणमात्रमपि यत्कार्यं तद्भूतैः एव प्रकृतिरूपापन्नैः क्रियते, एवं सांख्यमते आत्मा अकिञ्चित्करः, नास्तिकमते तु आत्मनः सर्वथाऽपि अभावः, ततो द्वयोरपि भूतान्येव सर्वकार्यकर्तृणीति ॥२१॥ तं च पदुद्देसेणं पुढोभूतसमवायं जाणिज्जा, तं (जहा)- पुढवी एगे महन्भूए, आऊ दुच्चे महब्भूते, तेऊ तच्चे महब्भूते, वाऊ चऊत्थे महब्भूते, आगासे पंचमे महब्भूते, इच्चेते पंच महन्भूया अणिम्मिआ अणिमैया अकडाणो कित्तिमा अणादीआ अणिहणा अवंझा अपुरोहिआसतंता सासया आयछट्ठा पुण एगे आहु, सतो नत्थि विणासो, असतो णस्थि संभवो ॥२२॥ तं च भूतानां समघायं पृथग्भूतपदोद्देशेन जानीयात् तद्यथा- पृथिव्येका महाभूतं इत्यादि, एषां कायाकारतया य: समवायः स एकत्वे लक्ष्यते, इत्येतानि पंचमहाभूतानि अनिर्मितानि कालेश्वरादिना केनचिदकृतानि, परेण अनिर्मापयितव्यानि, अकृतानि विश्रसापरिणामेन
॥१२॥
(१) M व्यापारता (२) Doभूत