SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ A ये भागवतादिलिंग अङगीकृत्य पश्चात् नास्तिकाः संवृत्ताः तेषां पूर्वं आदौ प्रव्रज्याग्रहणावसर एतत् परिज्ञातं भवति, यत् श्रमणा यतयो भविष्यामो, अनगाराः, किंचनं- द्रव्यं तद्रहिता निष्किंचनाः, अपुत्राः, अपशवः, परदत्तभोजिनो भिक्षवः किंचित् पापं कर्म सावद्यं न करिष्याम इति समुत्थाय पश्चात् नास्तिकतां प्राप्ताः ते आत्मना स्वयं सावद्याद् अप्रतिविरता अनिवृत्ता भवन्ति, स्वयं सावा आददते स्वीकुर्वन्ति, अन्यानपि आदापयन्ति ग्राहयन्ति, आददानं समनुजानन्ति, एवमेव स्त्रीप्रधाना: कामभोगा: स्त्रीकामभोगा: तेषु मूर्छिता गृद्धा अध्युपपन्ना आधिक्येन भोगेषु लुब्धाः, रागद्वेषार्ता: संतो न आत्मानं संसारात् समुच्छेदन्ति, नाऽपि परं समुच्छेदन्ति, नाऽपि अन्यान् प्राणिनो भूतानि जीवान् सत्त्वान् समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात्, ते च एवंविघा लोकायतिका: पूर्वसंयोगात् पुत्रादिकात् प्रहीणा भ्रष्टाः आर्य मार्ग सदनुष्ठानरूपं असंप्राप्ता इति लोकद्वयसदनुष्ठानभ्रष्टा अंतराल एव भोगेषु विषण्णा: तिष्ठन्ति, न पुंडरीकोत्क्षेपादि कार्य साधयंति इति अयं तज्जीवतच्छरीरवादी प्रथमः पुरुषः समाप्तः ॥१९॥ अहावरे दुच्चे पुरिसजाए पंचमहब्भूइए त्ति आहिज्जइ, इह खलु पाईणं वा(४) संतेगइआ मणुस्सा भवंति अणुपुव्वेणं लोअं उववन्ना, तं (जहा)-आरिया वेगे अणारिआ वेगे एवं जाव दुरूवा वेगे, तेसिं च णं महं एगे राया भवइ, महया एवं चेव णिरवसेसं जाव सेणावइपुत्ता, तेसिं च (१)D भगव० (२) BD असंवृत्ताः (३) BD oभूए । भूतिए (४) D आयरिया ॥११॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy