________________
मासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसंलेहणाझोसणाझूसिए जाव कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणाइवायं पच्चक्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खलु मम अट्ठाए किंचि वि जाव आसंदीपेंढियाओ पच्चारुहित्ता ते तहा कालगया इ किं वत्तव्वयं सिया? समणा कालगया इ वत्तव्वं सिया, ते पाणा वि वुच्चंति जाव अयं पि भे देसे णो णेयाउए भवइ॥१८॥ . गौतमः प्राह- सन्ति विद्यन्ते एके केचन श्रमणोपासकाः, तेषां एतदुक्तपूर्वं भवति यथा-न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं, नाऽपि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुम्, वयं च अपश्चिमया संलेखनाक्षपणया क्षपितकाया: यदि वा संलेखनाजोषणया सेवनया जोषिता: सेविता उत्तमार्थगुणैः एवम्भूताः सन्तो भक्तपानं प्रत्याख्याय कालं दीर्घकालम् अनवकाङ्क्षमाणा विहरिष्यामः, कोऽर्थः? - न खलु वयं दीर्घकालं व्रतं पालयितुं समर्थाः किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखितकाया: चतुर्विधाऽऽहारत्यागेन जीवितं त्यक्तुं समर्थाः इति सूत्रेणैवाऽऽह-सव्वं पाणाइवायमित्यादि यावत् ते तथाकालगताः किं वक्तव्यमेतत् स्यात् सम्यक् ते कालगता? इति पृष्टा निर्ग्रन्था आहुः, यथा ते सन्मनस: शोभनचित्ता: कालगता इति, ते कालं कृत्वा सुरलोकेषु १ BD ०पेढिया २ PD गृहीतुं
३३॥