________________
म
श्री सूत्रकृताङ्मदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
भगवान् गौतम उदकं प्रत्याह- शान्तिप्रधाना एके श्रमणोपासका भवन्ति, तेषां च इदम् उक्तपूर्व भवति, यथा न खलु वयं शक्नुमः प्रव्रज्यां गृहीतुं, किन्तु वयं चतुर्दश्यष्टम्यादिषु तिथिषु सम्पूर्ण पौषधं सम्यग् अनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावाद-ऽदत्तादान-मैथुन-परिग्रहं प्रत्याख्यास्यामः द्विविधं कृतकारितभेदात्, श्राद्धस्य अनुमते: अनिषिद्धत्वात्, त्रिविधेन मनोवच:कायैः, 'मा निषेधे', पौषधस्थस्य मम कृते किञ्चित् पचनपाचनादिकं मा कार्ट, परेण मा कारयत, सर्वथा असम्भविनो वस्तुनो अनुमते: अपि निषेधः, तत्राऽपि प्रत्याख्यास्यामः, ते श्रावका अभुक्त्वा अपीत्वा अस्नात्वा च पौषधयुतत्वाद् आसंदीपीठिकात: प्रत्यारुह्य अवतीर्य सम्यक् पौषधं कृत्वा कालं कृतवन्तः, ते किं सम्यक् कृतकाला उत असम्यक्? एवं पृष्टैः निर्ग्रन्थैः अवश्यम् एवं वक्तव्यं ते सम्यक् कालगताः, एवं कालगतानाम् अवश्यम्भावी देवलोकोत्पादः, तत्र उत्पन्नाश्च ते सा एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्य इति॥१७॥ पुनः श्राद्धोद्देशेन प्रत्याख्यानविषयं दर्शयति
भगवं च णं उदाहु-संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ- नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वइत्तए, नो खलु संचाएमो चाउड्सट्ठमुद्दिठ्ठपुण्ण१B यथा च २BD प्रत्याख्यामः ३RD प्रत्याख्यामः