SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ न च कदाचित् त्रसशून्यः संसारः स्यादिति भवदाक्षेपो वृथैव, अस्ति अयं पर्यायो यद् श्रमणोपासकस्य सर्वप्राणिभिः त्रसत्वेन भूतैः उत्पन्नैः दण्डो निक्षिप्तो वधस्त्यक्तः, केन हेतुना इत्याह- संसारिया इत्यादि पूर्ववत् यावत् त्रसकाये उत्पन्नानां स्थानमेतद् अघात्यं स्यात्, ते च त्रसाः प्राणा उच्यन्ते, त्रसा अपि उच्यन्ते, ते महाकायाश्चिरस्थितिकाः, ते च त्रसा बहवो यै: श्राद्धस्य सुप्रत्याख्यातं भवति, भवदभिप्रायेण सर्वस्थावराणां त्रसत्वेन उत्पत्तेः ते अल्पतरका यै: श्राद्धस्य अप्रत्याख्यातं भवति, अल्पशब्दो अभाववाचकः, न सन्ति एव त्वदभिप्रायेण ते जीवाः येषु अप्रत्याख्यातमिति, एवं से तस्य श्राद्धस्य महतः त्रसकायाद् उपशांतस्य विरतस्य सुप्रत्याख्यातं स्यादिति, एवं सति यद् यूयं वदथ अन्यो वा वदति यन्नास्ति असौ पर्याय इत्यादि सुगमं यावत् नो नेयाउए भवइ त्ति || १३ || अथ त्रसानां स्थावरत्वं प्राप्तानां वधेऽपि न व्रतभङ्गः स्यादित्यत्र दृष्टान्तत्रयमाह भगवं च णं उदाहु- नियंठा खलु पुच्छियव्वा, आउसंतो नियंठा ! इह खलु संतेगइआ मणुस्सा भवंति, तेसिं चणं एवं वुत्तपुव्वं भवइ- जे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वत्ता एएसि णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति ऐएसि णं आमरणंताए दंडे नो निक्खित्ते, कतिं च णं समणे जाव वासाणि चउपंचमाणि छद्दसमाणि अप्पयरो वा भुज्जयरो १ BD एतेसि ॥१२९॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy