________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्थे सप्तमाध्ययनम्
वा देसं दूइजित्ता आरमावसेजा? हंता वएजा, तस्स णं गारत्थं वहमाणस्स से पच्चक्खाणे नो भग्गे भवइ, एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे निक्खित्ते, थावरेहिं पाणेहिं दंडे नो निक्खित्ते,तस्स णं थावरकायं वहेमाणस्स से पच्चक्खाणे नो भग्गे भवइ,सेवमायाणह नियंठा! सेवमायाणितव्वं॥१४॥
भगवान् गौतम उदाह उक्तवान्, निर्ग्रन्थाः प्रष्टव्या: निर्ग्रन्थानां सर्वेषामपि एतत्सम्मतमिति ज्ञापनाय निर्ग्रन्थपश्न:, किमुक्तवान् इत्याह- शान्तिप्रधाना इह केचिन्मनुष्या: स्युः, तेषाम् एवमुक्तपूर्वं भवति- अयं व्रतग्रहणविशेष: स्यात् यथा- ये इमे मुण्डा भूत्वा अगारान्निर्गत्य अनगारितां प्रतिपन्नाः, एतेषामुपरि मया मरणान्तं दण्डो निक्षिप्तो वधस्त्यक्तः, कोऽर्थः? केनाऽपि यतीन् आश्रित्य व्रतं गृहीतं यथा यावज्जीवं मया यतयो न हन्तव्या इति, ये च इमे अगारं गृहम् आवसन्ति तेषां दण्डो न त्यक्त: गृहस्थानां हिंसा न प्रत्याख्याता इत्यर्थः, तत्र केचित् श्रमणा: कियन्तमपि कालं प्रव्रज्यां प्रतिपाल्य, कालमानम् आह- वासाणि त्ति- वर्षाणि चत्वारि पञ्च वा षड् दश वा, अस्य उपलक्षणाद् अन्योऽपि कालविशेषो ज्ञेयः, तमेव आह- अल्पतरं प्रभूततरं वा कालं तथा देशं दूइज्जत्ति विहृत्य कर्मोदयाद् गृहमावसेयुः गृहस्था भवेयुः, एवम्भूतः पर्याय: किं सम्भाव्यते उत न? इति पृष्टा निर्ग्रन्थाः १J अगारं वएज्जा २P 'गृहस्था भवेयुः' नास्ति