________________
श्री सूत्रकृतामदीपिका
द्वि.श्रु.स्कन्ये सप्तमाध्ययनम्
अन्तर्मुहूर्त उत्कृष्टतो अनन्तकालम् असंख्येयाः पुद्गलपरावर्ताः, ततस्ते स्वायुः परित्यज्य भूयः पुनरपि परलोकतया स्थावर कायस्थिते: अभावात् सामर्थ्यात् त्रसत्वेन प्रत्यायान्ति, ते त्रसा: प्राणा अप्युच्यन्ते, वसा अपि उच्यन्ते, महाकाया: ते योजनलक्षप्रमाणशरीरविकुर्वणात्, चिरस्थितिकाः ते भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागराऽऽयुष्कभावात्, ततः सानामेव निवृत्तिः श्राद्धेन कृता, न तु स्थावराणां, नागरिकदृष्टान्तोऽपि अयुक्तः, नागरिको न हंतव्य इति प्रतिज्ञां कृत्वा बहि:स्थितं तमेव पर्यायापन्नं घ्नतो व्रतभङ्ग इति त्वत्पक्षः, स च अयुक्तः, यो हि नगरधर्में: उपेतः स बहिःस्थोऽपि नागरिक एव, अत: पर्यायाऽऽपन्न इति विशेषणम् अयुक्तं, सर्वथा नगरधर्मत्यागे तु 'तमेव' इति नोपपद्यते, स च अन्य एव इति, तथा त्रसत्वत्यागाद् यदा स्थावरत्वं प्राप्तः तदा अन्य एव अयमिति तं घ्नतो न व्रतभङ्गः॥११॥ पुनरुदक: प्राह
सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा! नत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणाइवायविरए वि दंडे निक्खित्ते, कस्स णं तं हेउं? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पच्चायंति, तसा वि थावरत्ताए पच्चायंति, थावरकायाओ
१P काय० इति नास्ति २B त्रसनिवृत्तिः