________________
KE तथा सुकृतेन सिद्धि: दुष्कृतेनासिद्धिः, तथा दुष्कृतेनैव नरकः, अनरक: तिर्यङ्नरामरगतिरूप: स्यादित्यादिका चिंता न युक्ता, जीवस्यैव
अभावात्, एवं तेत्ति एवं उक्तप्रकारेण ते नास्तिका विरूपरूपैः नानास्वरूपैः कर्मसमारम्भैः सावद्यानुष्ठान: विरूपरूपान् कामभोगान् समारभन्ते समाददति तदुपभोगार्थम् ॥१७॥ एवमेगे पागन्भि णिक्खम्म मामगं धम्मं पण्णविंति. तं सद्दहमाणो तं पत्तिअमाणो तं रोएमाणो तं साहु सुअक्खाए समणे वा माहणे वा कामं स खलु आउसो ! तुमं पूययामित्ति, तं जहा असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा । पायपुंछणेण वा तत्थेगे पूअणाए समाउट्टिसु, तत्थेगे (पूयणाए) निकाययंसु ॥१८॥ एवम् उक्तप्रकारेण एके नास्तिका: प्रागल्भिका:-प्रागल्भ्येन चरन्ति-धृष्टतां प्राप्ता, आत्मा नास्तीति वदन्ति, तथा निष्क्रम्य स्वमतानुगतां प्रव्रज्यां गृहीत्वा मामकं धर्म - मदीयोऽयं धर्म इत्यंगीकृत्य परेभ्य: प्रज्ञापयन्ति, यद्यपि नास्तिकानां नास्ति दीक्षा तथाऽपि बौद्धादिमते प्रव्रज्य पश्चान्नास्तिकीभूते संभवति प्रव्रज्या, अथवा नीलपटाद्यंगीकृतः कश्चिदस्त्येव प्रव्रज्याविशेष इति, तं नास्तिकधर्मं श्रद्दधाना रोचयन्त: स्वमतौ प्रतियंतो अवितथभावेन गृह्णन्तः, साधु शोभनं एतद्यथा स्वाख्यातो भवता धर्मः, हे श्रमण ! ब्राह्मण ! शोभनं
॥१०॥
(१) D ते (२) BPD ०णेइ वा
(३) ०मेइ वा
(४) ०मेइ वा