________________
श्री सूत्रकृताङ्गदीपिका
# द्वि.श्रु.स्कन्थे
प्रथमाध्ययनम्
से हंता हणह खणह छणह डहह पयह आलुंपह विलुपह सहसकारेह विप्पराम जीवे णत्थि परलोए, ते णो विप्पडिवेदेति, तं किरिआइ वा अकिरियाइ वा सुक्कडेइ वा, दुक्कडेइ वा, कल्लाणेइ वा, पावएइ वा, साहूइ वा, असाहूइ वा, सेहीइ वा, असेहीइ वा, निरएइ वा, अनिरएइ वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए।।१७॥ एतदध्यवसायी स नास्तिक: स्वत: प्राणिनां हंता -व्यापादक: स्यात्, अन्येषामपि वक्ति हणह झ्याविघालयत खनत क्षणत क्षणनं-हिंसा, दहत, पचत, आलुपत, विलुपत, सहसा कारयत, विपरामृशत, एतावान्- शरीरमात्र एव तावज्जीवो, जीवाभावाच्च नास्ति परलोकः, ततस्ते तज्जीवतच्छरीरवादिनो नास्तिका एतन्न विप्रतिवेदयन्ते नांगीकुर्वन्ति, तद्यथा, क्रियां- सदनुष्ठानात्मिकाम्, अक्रियां वा असदनुष्ठानरूपां, सुकृतं वा, दुष्कृतं वा, कल्याणं वा, पापकं वा, साधुकृतं वा, असाधुकृतं वा, इत्यादिका चिंता एव नास्ति, कोऽर्थः? सुकृतानि साधुत्वात् कल्याणफलानि, दुष्कृतानि असाधुत्वाद् विरूपफलानीति, आत्मानं विनाऽसौ चिंता न युज्यते इत्यर्थः,
(१) BD “छणह" इति नास्ति (२) D एताव