SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ x एवमेव जाव सरीरं, से जहानामए केइ पुरिसे उक्खूओ खोयरसं अभिनिव्वट्टित्ता णं उवदंसेज्जा . अयमाउसो खोयरसे अयं चोए, एवमेव जाव सरीरं, से जहानामए केइ पुरिसे अरणिओ अग्गिं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! अरणी अयं अग्गी एवमेव जाव सरीरं, एवं असंओ असंविजमाणो जेसिं तं सुअक्खायं भवइ, अन्नो जीवो अन्नं सरीरं तम्हा तं मिच्छा ॥१६॥ तद्यथा नाम कश्चित्पुरुषः कोसीत: प्रत्याकाराद् असिं-खड्गं अभिनिवृत्य समाकृष्यान्येषामुपदर्शयेत्, यथा अयमायुष्मन् !असि:-खड्ग: अयं च कोश: प्रत्याकारः, एवमेव जीवशरीरयो: नास्ति उपदर्शयिता यथा अयं जीव इदं च शरीरमिति, नास्ति एवमुपदर्शयिता कश्चिद् अतो न कायाद्भिन्नो जीव इति, अत्रार्थे बहून् दृष्टांतानाह, कश्चित्पुरुषो मुंजात् तृणविशेषात् इसिअंति तद्गर्भभूतां शिलिकां पृथक्कृत्य दर्शयेत्, तथा मांसाद् अस्थि, करतलादामलकं, दध्नो नवनीतं, तिलेभ्य: तैलं, इक्षो: रस, अरणितो अग्निं, अभिनिवृत्य पृथक्कृत्य दर्शयेत्, एवं शरीराद् अपि जीवं, नास्त्येवमुपदर्शयिता कश्चिदतो असन्नात्मा शरीरात् पृथगसंवेद्यमानश्चेति, येषां च स्वमतानुरागादेतत्स्वाख्यातं भवति यदन्यो जीवो अन्यच्च शरीरमिति, आत्मा च पृथक् नोपलभ्यते तस्मात्तन्मिथ्या ॥१६॥ ॥९॥ (१) AM असंते (२) BD अहक्खायं (३) शलाका इत्यर्थः
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy