________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
तस्थुः, स्थगितानि गोपुराणि, ततो निष्क्रान्ते महे राज्ञा रक्षकाणाम् उक्तं- पश्यत नगरे कोऽपि नरो अस्ति नवा इति, तै: विलोकयद्भिः षट्पुत्राः ते दृष्टाः, राज्ञो निवेदिताः, राज्ञा कुपितेन षण्णामपि वधः समादिष्टः, ततः तत्पिता शोकाकुलो राजानं विज्ञपयति स्मदेव! मा कृथाः कुलक्षयम् अस्माकं, सर्वं धनं गृह्यतां मुच्यतां पुत्राः, एवमुक्तेऽपि राजा कथमपि न मुञ्चति पुत्रान्, तत: पिता सर्वपुत्रघातप्रवृत्तराजानं ज्ञात्वा पञ्चानां मोचनं याचितवान्, राजा पञ्चापि न मुञ्चति, ततश्चत्वारो याचिताः, तथाऽपि न मन्यते नृपः, ततस्त्रयो याचिता: तेऽपि न मुक्ता, ततो द्वौ मार्गितौ, तावपि अमुञ्चन् नृपः एकं पुत्रं याचितः, समग्रपौरजनविज्ञप्तो नृपः पुत्रमेकं ज्येष्ठं मुक्तवान् । अत्र इयं दृष्टान्तयोजना- सम्यक्त्ववान् श्राद्धः सर्वप्राणातिपातविरतिं कर्तुम् अशक्तो नृपस्थानीयः षट्कायपितृतुल्येन साधुना प्रेरितोऽपि सर्वविरतिं न अङ्गीकुरुते, षडपि जीवकायान् मोचयति साधुः, श्राद्धस्तु षण्णां मोचने अशक्तो ज्येष्ठमेकं त्रसकायं मुञ्चति-पालयति इत्यर्थः, साधुः एकमोचनेनाऽपि कृतार्थम् आत्मानं मन्यते, यथा च तस्य वणिजो न शेषपञ्चपुत्रवधाऽनुज्ञा, एवं साधो: अपि न शेषप्राणिवधाऽनुमतिः, किन्तु यदेव व्रतं गृहीत्वा यानेव स्थूलसत्त्वान् सङ्कल्पवधनिवृत्तो रक्षति श्राद्ध: तन्निमित्तं कुशलानुबन्ध एव इत्याह तसेहि- त्रसेभ्यो दण्डं हिंसां त्यक्त्वा यावद् विरमति तावत् तस्य कुशलं पुण्यमेव इति॥१०॥
KKKKKKKKKKKKKKK
१P मुच्यन्तां