________________
खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, वयण्णं अणुपुव्वेणं गोयस्स लिसिस्सामो, ते एवं संखं साविति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति, नन्नत्थ अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंड, तं पि तेसिं कुसलमेव भवइ।।१०॥
भगवान् गौतमः पुनराह- सन्ति एके केचन मनुष्याः येषां साधोः धर्मकथकस्य पुर इदम् उक्तं भवति यथा- न खलु वयं मुण्डा भवितुं प्रव्रज्यां ग्रहीतुं शक्नुमः, अगाराद् अनगारितां प्रव्रजितुं, वयम् आनुपूर्वेण क्रमेण गोत्रं साधुत्वं अनुश्लेषयिष्याम: कोऽर्थः? - वयं देशविरतिं पालयामः, ततः क्रमेण चारित्रं, तत एवं ते संख्या व्यवस्थां श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, ते एवं व्यवस्था स्थापयन्ति, सूपस्थापयन्ति च, नाऽन्यत्र अभियोगेन, अभियोगा राजाऽभियोगादिः, तेन त्रसं घ्नतोऽपि न व्रतभङ्गः, तथा गृहपतिचौरविमोक्षणतया इति, अस्याऽर्थः कथागम्य:, सा चेयं
रत्नपुरे रत्नशेखरराज्ञा स्वान्त:पुरादिस्त्रीणां स्वैरक्रीडारूप: कौमुदीमहोत्सवो अनुज्ञातः, पुरुषेण केनाऽपि नगरमध्ये न स्थेयम् इति आघोषणा कारिता, नृपादयः पुरुषाः सर्वेऽपि उद्याने सायं जग्मुः, एकस्य वणिज: षट्पुत्राः क्रयविक्रयादिव्यग्रा: पुरमध्य एव
R
॥१२६॥