SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे 2 सप्तमाध्ययनम् सीलव्वय-गुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरइ॥३॥ स लेपो नाम गृहपतिः श्रमणोपासको अभिगतजीवाजीव इत्यादि, निग्गंथे त्ति- आर्हते प्रवचने नि:शङ्कितः, निष्कासितो 'अन्यमतनिराकाङ्गः, विचिकित्सा -चित्तविपतिः विद्वज्जुगुप्सा वा तद्रहितो निर्विचिकित्सः, लब्धार्थो ज्ञाततत्त्वः गृहीतार्थ: स्वीकृतमोक्षमार्गः, पृष्टार्थत्वाद् विनिश्चितार्थः, अभिगतः प्रतीतो अर्थो येन स तथा, अस्थिमिञ्जा अस्थिमध्यं यावद् धर्मे प्रेमाऽनुरागेण रक्तो अत्यन्तं सम्यक्त्ववासितचित्त इत्यर्थः, केनचिद् धर्म पृष्टः प्राह-अयम् आयुष्मन् ! जैनधर्मो अर्थः सत्यः, परमार्थरूपः, शेष: सर्वोऽपि अनर्थः, ऊसियफलिह त्ति- उच्छ्रितं प्रख्यातं स्फटिकवन्निर्मलं यशो यस्य, अप्रावृतम् अस्थगितं द्वारं गृहस्य येन सो अप्रावृतद्वारः, परतीर्थिकोऽपि गृहं प्रविश्य धर्मं यदि वदेत् वदतु, न तस्य परिजनोऽपि सम्यक्त्वात् चालयितुं शक्यते, तभीत्या न द्वारप्रदानम् इत्यर्थः, प्रीतिकारी अंत:पुरेऽपि प्रवेशो यस्य स तथा, कोऽर्थ:?- राजाऽन्त:पुरे हि कोऽपि न प्रवेश्यः, तत्राऽपि असौ प्रतीतगुणत्वेन प्रवेशयोग्य इत्यर्थः, तथा चतुर्दश्यां अष्टम्यादिषु तिथिषु उपदिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रसिद्धासु, तथा पौर्णमासीषु च तिसृषु अपि चतुर्मासतिथिषु, एवम्भूतेषु धर्मदिवसेषु सुष्ठ अतिशयेन प्रतिपूर्णं संपूर्ण आहार-शरीर-सत्कार१BD अर्हते २ BD राज्ञामन्त:पुरे
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy