SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृतामदीपिका द्वि.श्रु.स्कन्धे । 'संवच्छरेण त्ति'- श्रमणव्रतेषु स्थिता अपि संवत्सरेणाऽपि एकैकं जन्तुं ये घ्नन्ति ये च उपदिशन्ति, ते अनार्या आत्माऽहिताः पुरुषाः, न तादृशाः केवलिनो भवन्ति।॥५४॥ ___ एवं हस्तितापसान् निरस्य आर्द्रकुमार भगवदन्तिकं व्रजन्तं दृष्ट्वा अभिनवगृहीतो वनहस्ती चिन्तयति स्म, यदि अहं बंधनात् मुक्तः स्यां तदा आर्द्रकुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधिताऽनेकवादिगणसमन्वितं गत्वा वन्दे, यावदेवं हस्तिना चिन्तितं तावता तस्य बन्धनानि त्रुटितानि, आर्द्रमुनिसम्मुखं त्वरया चलित: करी, ततो लोकैः पूत्कृतं, हा! हतोऽयं मुनिः इति, हस्ती च ससम्भ्रमं मुनिपार्श्व आगत्य त्रि: प्रदक्षिणीकृत्य दन्ताग्रस्पृष्टभूमिः साधुं नत्वा वनं ययौ, ततः श्रेणिकनृपः सपौरलोक: तं मुनि सप्रभावं नत्वा प्रोवाच, भगवन्! आश्चर्यमिदं यदयं करी बन्धनात् मुक्तः, ततो मुनिः आह- हे नृप! नैतद् आश्चर्यं यत्करी बंधनात् मुक्तः, यत्तु स्नेहपाशमोचनं तद्दुष्करं, तच्च प्रागुक्तं नियुक्तिकृता यथा न दुक्करं वा णरपासमोयणं, गयस्स मत्तस्स वणम्मि रायं । जहा उ चत्तावलिएण तंतुणा, तं दुक्करं मे पडिहाइ मोयणं ॥ अस्य अर्थ: प्राग् अध्ययनप्रारम्भे प्रोक्तः, एवम् आर्द्रकुमारो नृपं प्रतिबोध्य श्रीवीरान्तिकं गत्वा नत्वा भगवन्तं भक्तिभृत आसीनः, भगवानपि तानि पञ्चाऽपि शतानि प्रव्राज्य तच्छिष्यत्वेन ददौ।। अथ अध्ययनोपसंहारम् आह१JAM से २D बंधनमुक्तः
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy