________________
'संवच्छरेणावित्ति' - भो आर्द्रक ! ये तापसाः कन्दमूलफलाशिनः ते बहूनां स्थावराणां तदाश्रितत्रसानां च घातकाः, ये च भिक्षां सेवन्ते तेऽपि आशंसादोषदूषिताः भ्रमन्तश्च पिपीलिकादिजन्तुघातकाः, वयं तु संवत्सरेणाऽपि एकं महागजं बाणेन व्यापाद्य शेषाणां जीवानां दयार्थम् आत्मनो वृत्तिं जीविकां तन्मांसेन वर्षं यावत् कल्पयामः कुर्मः, ततो वयं बहुजीवरक्षकाः॥५२॥
अथ आर्द्रकुमारः प्राह
संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा ।
सेसाण जीवाण वहे न लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ ५३॥
'संवच्छरेणत्ति' - संवत्सरेणाऽपि एकैकं प्राणिनं घ्नन्तः प्राणातिपाताद् अनिवृत्तत्वाद् अनिवृत्तदोषाः ते स्युः, साधूनां तु सूर्यप्रकाशिते मार्गे युगमात्रदृष्ट्या ईर्यासमित्या गच्छतां निर्दोषाहाराऽन्वेषिणां समचित्तानां क्व आशंसादोष: ? क्व कीटिकादिघातो वा इत्यर्थः, स्तोकजीवघाते चेद् दोषाभावः तदा गृहस्था अपि स्वाऽऽरम्भदेशस्थान् जीवान् घ्नन्ति, शेषाणां च जीवानां वधे न लग्नाः, तस्मात् स्यादेवं स्तोकं स्वल्पं यस्माद् घ्नन्ति ततस्तेऽषि निर्दोषाः ॥ ५३ ॥
वरेणाविगमेगं, पाणं हणंते समणव्वएसु ।
यहि पुजे, न तारिसा केवलिणो भवंति ॥ ॥ ५४ ॥
ARAKARA
।। ११९ ।।