________________
एवं न मिज्जंति न संसरती, न माहणा खत्तिय वेस पेस्सा।
कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देवलोगा || ४८ ॥
' एवं न त्ति' आत्मनो अविकारित्वे आत्माऽद्वैते वा स्वीकृते दुर्भगसुभगादिभेदेन जीवा न मीयेरन् न ज्ञायन्ते, स्वकर्मप्रेरिता नरकादिगतिषु न संसरन्ति सर्वव्यापित्वाद् एकत्वाद् वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या न शूद्राः, नाऽपि कीट- पक्षि- सरीसृपाश्च भवन्ति, नराश्च सर्वेऽपि देवलोकाश्च इत्येवं गतिभेदो न स्यात् ॥४८॥
लोयं अजाणित्तिह केवलेणं, कहिंति जे धम्ममजाणमाणा । नासंति अप्पाण परं च नट्ठा, संसारघोरम्मि अणोरपारे ॥ ४९ ॥
'लोयं त्ति' - लोकं चराचरं अज्ञात्वा केवलेन दिव्यज्ञानेन इह जगति ये कथयन्ति धर्मम् अजानानाः ते स्वयं नष्टा आत्मना, परं च नाशयन्ति, क? घोरे संसारे अणोरपारे अर्वाग्भाग- परभागरहिते अनाद्यनन्ते इत्यर्थः॥४९॥
लोयं विजाणित्तिह केवलेणं, पुन्त्रेण नाणेण समाहिजुत्ता ।
धम्मं समत्तं च कहिंति जे उ, तांरंति अप्पाण परं च तिन्ना ॥५०॥
? DJAM anfa
॥११८॥