SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका द्वि.श्रु.स्कन्धे षष्ठमध्ययनम् ते एव महाव्रतानि, पुण्यपापबन्धं मोक्षसद्भावो अस्माकं भवतां च, तदेवम् उभयस्मिन्नपि धर्मे समुत्थिता यूयं वयं च, पूर्वस्मिन् काले वर्तमाने एष्ये च गृहीतप्रतिज्ञानिर्वाहकाः, आचारप्रधानं शीलम् उदितं कथितम्, अथ ज्ञानं मोक्षाङ्गम् उक्तं द्वाभ्याम्, आवयोः संपराये संसारे च न विशेषो अस्ति॥४६॥ अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च । सव्वेसु भूएस उ सव्वओ सो, चंदो व तारेहिं समत्तरूवो।।४७॥ 'अव्वत्तरूवं त्ति' - भवन्तः पुरुषं जीवं स्वीकृतवन्त: तथा वयमपि, किम्भूतं?, अव्यक्तरूपं, महान्तं व्यापकं, सनातनं नित्यं, अक्षतं प्रदेशानां खंडश: कर्तुं अशक्यत्वात्, अव्ययं अनन्तकालेनाऽपि एकप्रदेशस्याऽपि व्ययाऽभावात्, तथा सर्वेषु भूतेषु शरीरवत्सु प्रतिशरीरं सर्वतः सा मस्त्याद् असौ आत्मा भवति, यथा चन्द्रः ताराभिः समस्तरूप: संपूर्ण: सम्बध्यते एवं जीवोऽपि संपूर्णः शरीरैः सम्बध्यते, अयमेव श्लोको अद्वैतवादिवेदान्तिमते व्याख्येय:, नवरं सर्वभूतेषु सर्वतः सर्वात्मतया असौ स्थितः, यथा तारासु एक एव चन्द्रः तथा आत्माऽपि सर्वत्र सम्बध्यते।।४७॥ अथ आर्द्रकमुनि: आह १BD समस्त्याद्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy