________________
र
व्याप्तः, तीव्रो-असह्यो अभितापो यस्य स तथा, एवम्भूतः सन् नरकाभिसेवी स्यात् ॥४४॥
दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे। एगं च जे भोअयई असीलं, निवो निसं जाइ कओ असुरेहिं ॥४५॥
'दयावरं त्ति' - दयया वरं प्रधानं धर्मं जुगुप्समानो निन्दन्, वधावहं हिंसाकरं धर्मं प्रशंसन् एकमपि अशीलं निव्रतं षड्जीवोपमर्दै यो भोजयेत्, किं पूनर्बहून्?, नृपो राजा अन्यो वा य: कश्चित् मूढः स निशा इव नित्यान्धकारत्वात् निशा नरकभूमिः तां याति, कुतः तस्यासुरेषु-अधमदेवेषु अपि प्राप्तिः इति?॥४५॥
अथ आर्द्र मुनिम् एकदण्डिन:- सांख्या: प्राहुः, भो आर्द्रक! वरं कृतं यदेते सर्वारम्भप्रवृत्ता मांसाशिनो धिग्जातयो निरस्ताः, इदानीम् अस्मत्सिद्धान्तं श्रुणु
दुहओ वि धम्मम्मि समुट्ठिया मो, अस्सिं सुठिच्चा तह एसकालं।
आयारसीले उंइएऽह नाणे, न संपरायंमि विसेसमत्थि ॥४६॥ 'दुहओ त्ति' - योऽयं अस्मद्धर्म: यश्च त्वदीयो जैनः, स उभयरूपोऽपि कथञ्चित् तुल्यः, पञ्च यमा अस्माकं भवतां
॥११७॥
१B ०मईनन
२ JAM वुइएऽह BD उहेऽह