________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे # षष्ठमध्ययनम्
एवं गोशालमते बौद्धमते च निरस्ते द्विजातयः प्राहुः, भो आर्द्रकुमार! शोभनं कृतं यदेते वेदबाह्ये द्वे अपि मते क्षिप्ते, अथ जैनमतमपि वेदबाह्यं ततो न आदरणयोग्यं, तस्माद् ब्राह्मणसेवा एव युक्ता इत्याह
सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए माहणाणं । ते पुन्नखंधं सुमहजिणित्ता, भवंति देवा इइ वेयवाओ॥४३।।
'सिणायगाणं त्ति' - स्नातकानां षट्कर्मरतानां विप्राणां सहस्रद्वयं ये भोजयन्ति नित्यं ते, पुण्यस्कन्धं सुमहान्तं उपायं देवाः स्युः इति वेदवादः॥४३॥ आर्द्रकमुनिः एतद्दूषयन्नाह
सिणायगाणं तु दवे सहस्से, जे भोयए णितिए कलालगाणं। से गच्छई लोलुयसंपगाढे, तिव्वाभितावी नरगाहिसेवी ॥४४॥
'सिणायगाणं त्ति'- स्नातकानां सहस्रद्वयं यो भोजयति, किंभूतानां? कुलानि गृहाणि मांसार्थिनो ये अटन्ति ते कुलाटा मार्जाराः, कुलाटा इव कुलाटाः तेषां, स तादृग् ब्राह्मणभोजको बहुवेदनासु गतिषु याति, किंभूतः? - लोलुपै: आमिषगृद्धैः संप्रगाढो
१BD पुण्यसम्बन्धं